Enter your Email Address to subscribe to our newsletters

काठमांडूः, 26 मईमासः (हि.स.)।
एवरेस्टसमिटर्ससमिट इत्यस्य द्वितीयः संस्करणः १० जूनदिनाङ्के काठमांडूनगरे भविष्यति। अस्मिन् वर्षे विश्वस्य २६ देशेभ्यः आगताः १७६ एवरेस्टपर्वतारोही विशेषपदकैः प्रमाणपत्रैश्च सम्मानिताः भविष्यन्ति।
एवरेस्टअलायन्सनेपाल इत्यस्य अध्यक्षः सुदर्शननेपालः उक्तवान् यत् आयोजकसंस्था एवरेस्टअलायन्सनेपाल तथा संस्कृति-पर्यटन-नागरिकउड्डयनमन्त्रालयस्य सहयोगेन आयोज्यमानस्य अस्य कार्यक्रमस्य सर्वाः सिद्धताः पूर्णाः अभवन्। तेन उक्तं यत् वयं गतवर्षात् एव एवरेस्टपर्वतारोहिणां सम्माननार्थम् अस्य कार्यक्रमस्य आरम्भं कृतवन्तः। प्रथमसंस्करणस्य भव्यसफलतया अस्य महत्त्वं विस्तारश्च स्पष्टः जातः। अधुना एषः केवलं नेपालस्य न, अपितु वैश्विकमञ्चरूपेण परिवर्तितः अस्ति। अस्मिन् वर्षे नेपालसर्वकारस्य प्रत्यक्षसहयोगः समन्वयश्च प्राप्तः अस्ति, अतः वयं अधिकम् उत्साहिताः स्मः।
आयोजकानां मतानुसारं हिमालयस्य भविष्याय एकीकृतस्वरं उत्थापयितुं तथा विश्वस्य सर्वोच्चशिखरस्य सगरमाथा (माउंटएवरेस्ट) आरोहणं कृतवतां पर्वतारोहिणां अद्वितीयसाहसस्य योगदानस्य च सम्मानार्थम् अस्य कार्यक्रमस्य आयोजनं क्रियते। तेषां विश्वासः अस्ति यत् अनेन नेपालस्य पर्वतीयपर्यटनं वैश्विकस्तरे अधिकप्रतिष्ठां प्राप्स्यति तथा साहसिकपर्वतारोहिणां सम्मानः अपि वर्धिष्यते।
अस्मिन् संस्करणे राष्ट्रपतिः रामचन्द्रपौडेलस्य उपस्थितिः अपि भविष्यति। राष्ट्रपतिः प्रातःकाले आयोज्यमाने ‘समिटर्सब्रेकफास्ट’ कार्यक्रमे सहभागित्वं कृत्वा पर्वतारोहिभिः सह संवादं करिष्यति। ततः प्रभातफेरी तथा पर्वतारोहीसम्मानकार्यक्रमः आयोज्यते। कार्यक्रमस्य उद्घाटनं संस्कृति-पर्यटन-नागरिकउड्डयनमन्त्री खड्कराजपौडेलस्य हस्ताभ्यां कारयितुं योजना अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani