नेपालस्य प्रधानमंत्री बालेन्द्र शाहो यूरोपीय यूनियन देशानां राजदूतैः सह उपवेशनेषु कृता विभिन्नेषु प्रकरणेषु चर्चा
काठमांडूः, 26 मईमासः (हि.स.)। नेपालस्य प्रधानमन्त्री बालेन्द्रशाहः मङ्गलवासरे काठमांडूनगरे यूरोपीयसंघेन (ईयू) सम्बद्धदेशानां आवासीय-अनावासीयराजदूतैः मिशनप्रमुखैश्च सह संयुक्तोपवेशनं कृतवान्। उपवेशनकाले यूरोपीयदेशप्रतिनिधिभिः सह कूटनीतिक-द्विपक्षी
नेपाल के प्रधानमंत्री बालेन्द्र शाह की यूरोपीय देशों के राजदूतों के साथ संयुक्त बैठक


काठमांडूः, 26 मईमासः (हि.स.)।

नेपालस्य प्रधानमन्त्री बालेन्द्रशाहः मङ्गलवासरे काठमांडूनगरे यूरोपीयसंघेन (ईयू) सम्बद्धदेशानां आवासीय-अनावासीयराजदूतैः मिशनप्रमुखैश्च सह संयुक्तोपवेशनं कृतवान्। उपवेशनकाले यूरोपीयदेशप्रतिनिधिभिः सह कूटनीतिक-द्विपक्षीयसहयोगसम्बद्धेषु विविधविषयेषु चर्चा अभवत्।

प्रधानमन्त्री तथा मन्त्रिपरिषद्कार्यालये मङ्गलवासरे आयोजितायां यूरोपीययूनियनसदस्यदेशानां आवासीय-अनावासीयराजदूतानां संयुक्तोपवेशनं सम्बोधयन् प्रधानमन्त्री शाहः उक्तवान् यत् तस्य सरकारः नेपालीनागरिकाणां जीवनस्तरस्य उन्नयनार्थं पूर्णतया प्रतिबद्धम् अस्ति। तेन उक्तं यत् नूतनत्वस्य अर्थः एषः न यत् वयं सम्पूर्णतया अतीतात् पृथक्कृताः अभवाम। वयं लोकतान्त्रिकमूल्यानां संरक्षणाय राजनैतिकस्थैर्यस्य रक्षणाय च पूर्णतया प्रतिबद्धाः स्मः, येन नेपालस्य नीतिदिशा स्पष्टा, स्थिरा तथा पूर्वानुमेयतायुक्ता भवेत्।

प्रधानमन्त्री शाहः उक्तवान् यत् सर्वकारः वैश्विकापणानां उपयोगेन नागरिकानां कृते नूतनावसरान् निर्मातुम् इच्छति। सहैव विशालस्तरे निवेशाकर्षणार्थं प्रक्रियाः सरलीकृत्य सततविकासस्य प्रोत्साहनं कर्तुं लक्ष्यं निर्धारितम् अस्ति। तेन पुनरपि प्रतिपादितं यत् नेपालः सन्तुलिता व्यावहारिका च विदेशनीतिः अनुसरिष्यति। तेन सह व्यापार-निवेश-हरितऊर्जा-जलवायुपरिवर्तन-पर्यटनादिषु महत्वपूर्णक्षेत्रेषु सहयोगस्य सुदृढीकरणार्थं प्रयत्नाः निरन्तरं प्रवर्तन्ते इति अपि उक्तवान्।

उपवेशनकाले प्रधानमन्त्री शाहः उक्तवान् यत् विश्वस्य विविधभागेषु प्रवर्तमानानां संघर्षाणां महान् भारः सामान्यनागरिकैः एव वह्यते। तेन स्थायिशान्तिसुनिश्चित्यर्थं सैन्यसंघर्षस्य अपेक्षया संवाद-कूटनीति-अन्तरराष्ट्रीयविधेः प्राधान्यं दातुं बलं दत्तम्।

काठमांडू तथा नवदिल्लीस्थिताः यूरोपीययूनियनदेशानां राजदूताः अन्ये राजनयिकाश्च शान्तिपूर्णनिर्वाचनसम्पादनार्थं नेपालस्य प्रशंसां कृतवन्तः। तैः सुशासन-आर्थिकविकास-समृद्धेः प्राधान्ययुक्तेन जनादेशेन नूतनसरकारस्य नेतृत्वग्रहणार्थं प्रधानमन्त्री शाहाय अभिनन्दनं दत्तम्। राजनयिकैः नेपालस्य आर्थिकविकासस्य राष्ट्रियप्रगतेश्च समर्थनार्थं विविधक्षेत्रेषु सहयोगनिवेशयोः वृद्ध्यर्थं प्रतिबद्धता अपि व्यक्तीकृता।

अस्मिन् प्रतिनिधिमण्डले ऑस्ट्रिया, बेल्जियम, बुल्गारिया, साइप्रस, चेकगणराज्य, डेनमार्क, एस्टोनिया, फिनलैंड, फ्रांस, जर्मनी, ग्रीस, इटली, लिथुआनिया, लक्ज़मबर्ग, नीदरलैंड्स, पोलैंड, पुर्तगाल, रोमानिया, स्लोवाकिया, स्लोवेनिया, स्पेन तथा स्वीडनदेशानां राजदूताः उपराजदूताश्च समाविष्टाः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani