द्वादशदेशानां प्रतिनिधिभिः अभियानप्रमुखैः च सह अद्य संवादं करिष्यति : नितिननवीनः
नवदिल्ली, २६ मे-मासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) राष्ट्रियाध्यक्षः नितिननवीनः मङ्गलवासरे पक्षस्य मुख्यालये “भाजपां जानीत” इति उपक्रमस्य अन्तर्गतं द्वादशदेशानां प्रतिनिधिभिः अभियानप्रमुखैः च सह संवादं करिष्यति। अयं कार्यक्रमः सायं चतुर्वादने
भाजपा अध्यक्ष नितिन नवीन


नवदिल्ली, २६ मे-मासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) राष्ट्रियाध्यक्षः नितिननवीनः मङ्गलवासरे पक्षस्य मुख्यालये “भाजपां जानीत” इति उपक्रमस्य अन्तर्गतं द्वादशदेशानां प्रतिनिधिभिः अभियानप्रमुखैः च सह संवादं करिष्यति। अयं कार्यक्रमः सायं चतुर्वादने केन्द्रीयभाजपामुख्यालये आयोज्यते। भाजपायाः विदेशविभागस्य प्रभारी डॉ.विजयचौथाईवाले कार्यक्रमस्य विषये सूचनां उक्तवान्।

अयं उपक्रमः भाजपापक्षस्य ऐतिहासिकयात्रां, विचारधारां, संघटनात्मकसंरचनां, सुशासनप्रतिमानं तथा विविधक्रियाकलापान् राजनैयायिक-समुदायं प्रति परिचाययितुं आयोजितानां कार्यक्रमाणां श्रृङ्खलायाः भागः अस्ति। राष्ट्रियाध्यक्षपदस्य दायित्वग्रहणानन्तरम् एषा नितिननवीनस्य अभियानप्रमुखैः सह प्रथमा औपचारिकी वार्ता भविष्यति।

Hindusthan Samachar / Divya Ranjan