प्रो. अजय कुमार जेटली संजातः इलाहबादविश्वविद्यालयस्य कुलपतिः
--इलाहबादविश्वविद्यालयस्य प्रो. सूर्य भान सिंहः अधिष्ठाता छात्रकल्याणम् प्रयागराजः, 26 मईमासः (हि.स)। दृश्यकलाविभागस्य अध्यक्षः प्रो. अजयकुमारजेटली इलाहाबादविश्वविद्यालये अधिष्ठाता-कॉलेज-विकास पदे नियुक्तः अभवत्। तेन सह राजनीति-विज्ञानविभागस्य प
प्रो अजय जेटली एवं प्रो सूर्य भान सिंह


--इलाहबादविश्वविद्यालयस्य प्रो. सूर्य भान सिंहः अधिष्ठाता छात्रकल्याणम्

प्रयागराजः, 26 मईमासः (हि.स)। दृश्यकलाविभागस्य अध्यक्षः प्रो. अजयकुमारजेटली इलाहाबादविश्वविद्यालये अधिष्ठाता-कॉलेज-विकास पदे नियुक्तः अभवत्। तेन सह राजनीति-विज्ञानविभागस्य प्रो. सूर्यभानसिंहः इलाहाबादविश्वविद्यालये अधिष्ठाता-छात्रकल्याण (डीन् स्टूडेण्ट् वेल्फेयर्) पदे नियुक्तः अभवत्।

एतां जानकारीं मङ्गलवासरे इविवि-जनसम्पर्काधिकारी प्रो. जयाकपूर प्रदाय उक्तवती यत् कुलपतिः प्रो. संगीताश्रीवास्तवस्य अनुमोदनानन्तरं कुलसचिवस्य पक्षतः आदेशः निर्गतः अस्ति। प्रो. अजयकुमारजेटली वर्तमानकाले विश्वविद्यालयस्य सांस्कृतिककार्यक्रम-आयोजनसमितेः अध्यक्षः अस्ति। तेन सह देशस्य अनेकप्रमुखविश्वविद्यालयानां दृश्यकलाविभागस्य बोर्ड् ऑफ् स्टडीज् इत्यत्र विषयविशेषज्ञरूपेण अपि सम्मिलितः अस्ति। प्रो. अजयकुमारजेटली इविवि-संस्थायाः वरिष्ठशिक्षकेषु गणितः भवति।

— इलाहबादविश्वविद्यालय-संस्थायाः प्रो. सूर्यभानसिंहः अभवत् अधिष्ठाता-छात्रकल्याण —

इविवि-संस्थायाः पीआरओ उक्तवती यत् अस्य एव क्रमस्य अन्तर्गतं राजनीति-विज्ञानविभागस्य प्रो. सूर्यभानसिंहः इलाहाबादविश्वविद्यालये अधिष्ठाता-छात्रकल्याण (डीन् स्टूडेण्ट् वेल्फेयर्) पदे नियुक्तः अभवत्। प्रो. जयाकपूरः उक्तवती यत् कुलपतिः प्रो. संगीताश्रीवास्तवस्य अनुमोदनानन्तरं कुलसचिवः प्रो. आशीषखरे प्रो. सूर्यभानसिंहस्य नियुक्तिसम्बद्धान् आदेशान् निर्गतवान्। प्रो. सूर्यभानसिंहः प्रतिष्ठितस्य ताराचन्द-छात्रावासस्य अधीक्षकः अपि आसीत्। सः पूर्वं उत्तराखण्ड-ओपन्-यूनिवर्सिट्यां सहायकपरीक्षानियन्त्रकः तथा सहपरीक्षानियन्त्रकः अपि आसीत्।

---------------

Hindusthan Samachar / Dheeraj Maithani