Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २६ मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः स्वस्य एक्स-माध्यमे ज्ञानकेन्द्रितं सुभाषितं (वीडियोसन्देशं) सहभागं कृतवान्। तेन अस्य माध्यमेन देशाय समाजाय च सत्यज्ञानस्य महत्त्वं विवृतम्। सः अलिखत्— “सत्यं ज्ञानं देशस्य समाजस्य समग्रमानवतायाश्च कल्याणस्य मार्गं प्रशस्तं करोति। अतः आवश्यकं यत् अस्माकं ज्ञानं कर्म च समग्रमानवतायै प्रेरणास्रोतः भवेताम्।”
प्रधानमन्त्रिणः एक्स-माध्यमे लिखितं सुभाषितम् एवं वर्तते—
“आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयम्प्रभः।अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो भवत्ययम्।।“
अस्य श्लोकस्य पृष्ठे निहितस्य भावस्य मर्मं विवृण्वन् प्रधानमन्त्री ज्ञानं कर्म च परस्परपूरकौ इति उक्तवान् तथा समग्रमानवतायाः कल्याणस्य आह्वानं कृतवान्।
अस्य सुभाषितस्य अर्थः अस्ति यत् आत्मा स्वभावतः एव शुद्धा भवति। सा सदा विद्यमाना तिष्ठति। आनन्दरूपा अस्ति। स्वयं प्रकाशमाना भवति। अज्ञानस्य कारणेन सा अशुद्धा सीमिता वा इव दृश्यते। ज्ञानप्राप्तौ सति सा पुनः शुद्धरूपेण प्रकाशते। अस्य श्लोकस्य प्रत्येकं शब्दस्य गम्भीरः अर्थः अस्ति। यथा “शुद्धः” इत्यस्य अर्थः— स्वभावतः पवित्रः निष्पापश्च। “सदा नित्यः” इत्यस्य तात्पर्यम्— शाश्वतः अजरः अमरश्च इति।
Hindusthan Samachar / Divya Ranjan