Enter your Email Address to subscribe to our newsletters

नवदेहली, २६ मे-मासः (हि.स.)। हिन्दमहासागर-प्रशान्तमहासागरप्रदेशयोः चत्वारि प्रमुखदेशानि— भारतम्, ऑस्ट्रेलिया, जापान, अमेरिका च— एतेषां समूहस्य ‘क्वाड्’ इत्यस्य विदेशमन्त्रिणां सभा नवदेहल्यां प्रवर्तते। अस्याम् सभायां विदेशमन्त्री एस.जयशङ्करः, अमेरिकादेशस्य मार्कोरुबियो, जापानदेशस्य तोशिमित्सुमोतेगी, ऑस्ट्रेलिया-देशस्य पेनीवोङ् च सहभागं कुर्वन्ति। विदेशमन्त्री एस.जयशङ्करेण स्वप्रारम्भिकवक्तव्ये उक्तं यत् एते चत्वारः देशाः सामुद्रिकलोकतन्त्रयुक्ताः, बहुलतावाद-समाजयुक्ताः, विपणिनिर्भरार्थ-व्यवस्थायुक्ताश्च सन्ति। अतः मुक्तस्य उद्घाटितस्य च हिन्द-प्रशान्तप्रदेशस्य संरक्षणे तेषां सामूहिकम् उत्तरदायित्वम् अस्ति। अयं प्रदेशः वैश्विकविकासस्य स्थिरतायाश्च प्रमुखाधाररूपेण अवस्थितः भवेत्।
जयशङ्करेण उक्तं यत् क्वाड्-समूहस्य मुख्यलक्ष्यं मुक्तस्य, उद्घाटितस्य, स्थिरस्य च हिन्द-प्रशान्तप्रदेशस्य सुनिश्चितीकरणम् अस्ति। सदस्यदेशाः हिन्द-प्रशान्तप्रदेशात् अतिरिक्तं सामूहिकक्रियाकलापानां वैश्विकसमस्यानां विषयेऽपि चर्चां करिष्यन्ति। तेन उक्तं यत् हिन्द-प्रशान्तप्रदेशः क्वाड्-समूहस्य प्रमुखविचारबिन्दुः अस्ति। वैश्विकस्तरे आपूर्तिशृङ्खलायाः सुदृढता, सम्पर्कमार्गाणां बाधाः, विनिर्माणस्य, महत्त्वपूर्णाधारसंरचनायाश्च न्यूनता इत्यादयः विषयाः विचारणीयाः सन्ति। एताभिः समस्याभिः निपुणतया समक्षं कर्तुं सुदृढसहभागिता विश्वसनीयसहयोगश्च आवश्यकौ स्तः।
जयशङ्करेण उक्तं यत् हिन्द-प्रशान्तप्रदेशे रणनैतिकविश्वासवृद्धिः, सामुद्रिकसुरक्षायाः सुनिश्चितीकरणम्, आर्थिकविकल्पानां प्रोत्साहनञ्च अत्यावश्यकम् अस्ति। तेन पारदर्शीविश्वसनीयसहभागिताम् अस्य दिशायाः सर्वाधिकप्रभावि-श्रेयस्कर-माध्यमम् इति निर्दिष्टम्। तेन उक्तं यत् गतेषु मासेषु सदस्यदेशानां अधिकारिणः सामुद्रिकसुरक्षा, महत्त्वपूर्ण-प्रौद्योगिकी, आर्थिकसुदृढता, मानवीय-साहाय्यं, आपदासाहाय्यराहतक्षेत्रेषु च सहयोगवृद्ध्यर्थं कार्यं कुर्वन्ति।
Hindusthan Samachar / Divya Ranjan