Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 26 मईमासः (हि.स.)। सेवासेतुपटलम् अधुना बस्तरजिलायाः सुदूरवनाञ्चलक्षेत्रेषु निवसद्भ्यः नागरिकेभ्यः वरदानसदृशं सिद्धं भवति। मुख्यमन्त्रिणो विष्णुदेवसायस्य नेतृत्वे आरब्धायाः अस्याः डिजिटलप्रयत्नय अन्तर्गतं लोकसेवाकेन्द्राणि अधुना उन्नतीकृत्य सेवासेतुकेन्द्ररूपे परिवर्तितानि सन्ति। गत १८ मई-दिने शुभारम्भात् अनन्तरं वर्तमानकाले बस्तरजिलायाः ९६ स्थानेषु एते सेवासेतुकेन्द्राः पूर्णरूपेण कार्यरताः सन्ति। अस्य महत्त्वपूर्णस्य प्रशासनिकतान्त्रिकसुधारस्य अनन्तरं अधुना बस्तरनिवासिभ्यः स्वस्य लघु-महत्प्रमाणपत्राणां अन्यकार्याणां च कृते पर्याप्तसुविधा प्राप्यते, येन तेषां समय-श्रम-धनानां च बचतः भवति।
पूर्वं सञ्चालिते ई-डिस्ट्रिक्ट् प्लेटफॉर्मे केवलं ८६ सेवाः एव ऑनलाइनरूपे उपलब्धाः आसन्, किन्तु नागरिकानां दैनिकावश्यकतानां दृष्ट्या शासनेन अस्य उन्नतसंस्करणं सेवासेतु विकसितम्। अधुना अस्मिन् एकस्मिन् ऑनलाइनमञ्चे ४४१ अधिकाः शासकीयसेवाः संयोजिताः सन्ति, यस्मिन् ५४ नवीनसेवानां समावेशेन सह विभिन्नविभागानां ३२९ री-डायरेक्ट्-सेवानाम् अपि सफलैकिकीकरणं कृतम् अस्ति। वर्तमानकाले ३० अधिकाः शासकीयविभागाः अस्मात् सिंगल-विण्डो-डिजिटलमञ्चात् प्रत्यक्षतया सम्बद्धाः सन्ति, यस्य कारणेन सामान्यजनाः पृथक्-पृथक् पोर्टलानाम् आश्रयणं कर्तुं न बाध्यन्ते तथा च सम्पूर्णा प्रशासनिकप्रक्रिया पूर्वात् अधिकं व्यवस्थिताभूता अस्ति।
बस्तरजिलायाः ग्रामीण-नगरीयक्षेत्रेषु अस्य पोर्टलस्य माध्यमेन आयप्रमाणपत्रम्, जातिप्रमाणपत्रम्, निवासप्रमाणपत्रम् इत्यादिभिः सह विवाहप्रमाणपत्रम्, नामपरिवर्तनार्थं साधारणराजपत्र-अधिसूचना, भूमिसम्बद्धा भू-नकल इत्यादयः मूलभूतसेवाः नागरिकैः व्यापकस्तरेण उपयुज्यन्ते। सेवासेतु परम्परागतव्यवस्थां परिवर्त्य नागरिकेभ्यः “वन्-स्टॉप्-सॉल्यूशन” इति सुविधां प्रदत्तवती, यत्र प्रत्येकसेवायाः कृते एकः समयसीमा-निर्धारः कृतः अस्ति, येन निश्चितकालावधौ एव जनाः स्वदस्तावेजान् प्राप्तुं शक्नुवन्ति। अस्याः डिजिटलव्यवस्थायाः प्रति सामान्यजनानां विश्वासः निरन्तरं दृढः भवति, यतः इलेक्ट्रॉनिकवर्कफ्लोप्रणाल्याः माध्यमेन अधुना आवेदनप्रक्रियायाः निगराणी अत्यन्तं सुकरा जाता अस्ति।
आधुनिकप्रौद्योगिक्याः वर्धमानप्रयोगं दृष्ट्वा अस्य व्यवस्थायाः अधिकसुलभीकरणार्थं सेवासेतु अधुना व्हाट्सएप् इत्यनेन अपि सम्बद्धा कृता अस्ति। अस्य माध्यमेन बस्तरस्य दूरस्थान्चलेषु निवसन्तः जनाः अपि गृहे उपविश्य केवलं स्वस्य मोबाइलदूरभाषेण लोकसेवानां यथार्थजानकारीं प्राप्नुवन्ति तथा च प्रत्यक्षतया ऑनलाइनसेवासु स्वप्रवेशं स्थापयितुं शक्नुवन्ति। अधुना बस्तरस्य ग्रामीण-दूरस्थक्षेत्रेषु निवसन्तः जनाः स्वस्य समीपस्थ-कॉमनसर्विससेण्टर, लोकसेवाकेन्द्रं, इन्टरनेटाधारितसेवाः च माध्यमीकृत्य एतासां डिजिटलसुविधानां लाभं प्राप्य मुख्यधारया प्रत्यक्षतया सम्बध्यन्ते।
---------------
Hindusthan Samachar / Dheeraj Maithani