छत्तीसगढे वन्यजीव संरक्षणाय शुभारप्स्यते विशेषप्रशिक्षणम्
राष्ट्रीय विशेषज्ञाः दास्यन्ति वन्यजीवानां मरणोत्तरपरीक्षणं परिशीलनं चेत्येतयोः सूक्ष्मं प्रशिक्षणम् रायपुरम्, 26 मईमासः (हि. स.)। छत्तीसगढे वन्यजीवानां विशेषतः गजानां तेषां शावकानां च सुरक्षा-संरक्षणार्थं वनविभागेन एकः महत्त्वपूर्णः उपक्रमः आरभ
फाइल फोटो -  विचरण करते हुए हाथियों का दल


राष्ट्रीय विशेषज्ञाः दास्यन्ति वन्यजीवानां मरणोत्तरपरीक्षणं परिशीलनं चेत्येतयोः सूक्ष्मं प्रशिक्षणम्

रायपुरम्, 26 मईमासः (हि. स.)।

छत्तीसगढे वन्यजीवानां विशेषतः गजानां तेषां शावकानां च सुरक्षा-संरक्षणार्थं वनविभागेन एकः महत्त्वपूर्णः उपक्रमः आरभ्यते।

वनविभागः जून २०२६ मासस्य प्रथमसप्ताहे उच्चस्तरीयं राज्यस्तरीयं विशेषप्रशिक्षणकार्यक्रमम् आयोजयिष्यति। अस्य विशेषप्रशिक्षणस्य मुख्योद्देश्यः वन्यजीवानाम् अकालमृत्योः कारणानां वैज्ञानिकपरीक्षणं कर्तुम्, तेषां उत्तमस्वास्थ्यप्रबन्धनं सुनिश्चितीकर्तुम्, भविष्ये च एतादृशदुःखदघटनानां निवारणार्थं दृढरणनीतिं निर्मातुम् अस्ति। अस्य कार्यक्रमस्य विषयः “लर्निंग फ्रॉम डेड् एसेन्शियल्स् ऑफ् मॉर्टेलिटी इन्‍वेस्टिगेशन ऑफ् एशियन् एलिफेण्ट् फॉर् ऑफिसियल् ऑफ् छत्तीसगढ् फॉरेस्ट् डिपार्टमेण्ट्” इति निर्धारितः अस्ति।

देशस्य प्रतिष्ठिताः राष्ट्रियविशेषज्ञाः दास्यन्ति व्यावहारिकप्रशिक्षणम् —

अस्मिन् उन्नतप्रशिक्षणकार्यक्रमे देशस्य ख्यातिलब्धप्रतिष्ठितसंस्थानानां विशेषज्ञाः मुख्यरूपेण सहभागित्वा मैदानीयकर्मचारिणां मार्गदर्शनं करिष्यन्ति। एतेषु डॉ. परागनिगमः, डॉ. कारिकलन्, डॉ. तपेन्द्रसैनी, डॉ. जैनकरणभरतः इत्यादयः राष्ट्रियविशेषज्ञाः उपस्थितेभ्यः वनाधिकारिभ्यः वन्यप्राणिपशुचिकित्सकेभ्यश्च गजानां अन्येषां वन्यजीवानां च जटिलरोगाणां समये परिचयं, तेषां सटीकचिकित्सां, वैज्ञानिकशवपरीक्षणप्रक्रियां, आधुनिकफॉरेन्सिकपरीक्षणस्य सूक्ष्मतत्त्वानि च व्यावहारिकतां तान्त्रिकप्रशिक्षणं च दास्यन्ति।

पूर्वघटनानां प्रकरणाध्ययनेभ्यः निर्मास्यते नूतना रणनीतिः —

वनविभागेन अस्य प्रशिक्षणस्य पूर्णतया व्यावहारिकीकरणार्थं पूर्वघटनाभ्यः शिक्षाग्रहणे विशेषबलं दत्तम् अस्ति। प्रशिक्षणकाले गतद्विवर्षयोः रायगढ-धरमजयगढ-वनक्षेत्रयोः जातानां गजशावकमृत्युसम्बद्धप्रकरणानां गम्भीरसमीक्षा क्रियिष्यते। सम्बद्धवनमण्डलाधिकारी एतेषां प्रकरणानां शवपरीक्षणप्रतिवेदनानि, विसरापरीक्षणप्रतिवेदनानि, विशेषज्ञसंस्थानानां निष्कर्षान् च पटलस्य उपरि स्थापयिष्यन्ति। राष्ट्रियविशेषज्ञाः एतासां सर्वासां प्रतिवेदनानां तान्त्रिकविश्लेषणं कृत्वा भविष्याय अचूकसुरक्षासूचनाः दास्यन्ति।

बहुसंख्यया सहभागी भविष्यन्ति समतलीयाधिकारिणः पशुचिकित्सकाः च —

अस्मिन् विशेषप्रशिक्षणसत्रे राज्यस्य सर्वेषु चिडियाघरेषु संरक्षितक्षेत्रेषु च नियुक्ताः वन्यप्राणिपशुचिकित्सकाः, गजप्रभावितक्षेत्राणां सर्वे वनमण्डलाधिकारिणः, उपवनमण्डलाधिकारिणः, वनक्षेत्रपालाः तथा पशुपालनविभागस्य वरिष्ठचिकित्सकाः अनिवार्यरूपेण सहभागं करिष्यन्ति। मङ्गलवासरे प्रधानमुख्यवनसंरक्षकः (वन्यप्राणी) अरुणकुमारपाण्डेयः एतां सूचनां दत्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani