वरिष्ठ-नागरिक-तीर्थयात्रा-योजना — पञ्चाशत्-सहस्रं वृद्धाः वातानुकूल-रेलयानेन षट्-सहस्रञ्च वायुयानेन तीर्थयात्रां करिष्यन्ति
जयपुरम्, 26 मईमासः (हि.स.)। राजस्थान-सर्वकारस्य वरिष्ठ-नागरिक-तीर्थयात्रा-योजनायाः अन्तर्गतम् अस्मिन् वर्षे प्रदेशस्य सहस्राणां वृद्धानां निःशुल्क-धार्मिक-यात्रायाः लाभः लभ्यते। योजनायाः ऑनलाइन-आवेदन-प्रक्रिया २७ मई-तः आरभ्य १० जूनपर्यन्तं चलिष्यति
वरिष्ठ नागरिक तीर्थ यात्रा योजना: 50 हजार बुजुर्ग एसी ट्रेन और 6 हजार विमान से करेंगे तीर्थ यात्रा


जयपुरम्, 26 मईमासः (हि.स.)। राजस्थान-सर्वकारस्य वरिष्ठ-नागरिक-तीर्थयात्रा-योजनायाः अन्तर्गतम् अस्मिन् वर्षे प्रदेशस्य सहस्राणां वृद्धानां निःशुल्क-धार्मिक-यात्रायाः लाभः लभ्यते। योजनायाः ऑनलाइन-आवेदन-प्रक्रिया २७ मई-तः आरभ्य १० जूनपर्यन्तं चलिष्यति। राज्य-सर्वकारेण अस्मिन् वारे पञ्चाशत्-सहस्रं वरिष्ठ-नागरिकान् वातानुकूल-रेलयानैः तथा षट्-सहस्रं वृद्धान् वायुयानेन तीर्थयात्रां कारयितुम् लक्ष्यं निर्धारितम् अस्ति।

पशुपालन-गोपालन-डेयरी-देवस्थान-विभागस्य कैबिनेट-मन्त्री जोरारामः कुमावतः अकथयत् यत् — देवस्थान-विभागस्य पक्षतः प्रकाशितस्य कार्यक्रमस्य अनुसारम् इच्छुकाः वरिष्ठ-नागरिकाः निर्धारितायां अवधौ ऑनलाइन-आवेदनं कर्तुं शक्ष्यन्ति। चितानां यात्रिणां देशस्य प्रमुखेभ्यः धार्मिक-स्थलेभ्यः दर्शनं कारयिष्यते। योजनायाः उद्देश्यम् आर्थिकरूपेण दुर्बलानां वृद्धानां कृते तीर्थयात्रायाः अवसरम् उपलब्धं कर्तुम् अस्ति।

अस्मिन् वारे यात्रिणां कृते विशेषाणां वातानुकूल-रेलयानानाम् व्यवस्था कृता अस्ति। यात्रायाः काले भोजनस्य, चिकित्सायाः, सुरक्षायाः, अन्यासाञ्च आवश्यकानां सुविधानाम् उपलब्धता भविष्यति। सर्वकारस्य कथनम् अस्ति यत् वरिष्ठ-नागरिकेभ्यः सुरक्षितम् आरामदायकञ्च यात्रानुभवं दातुं सर्वाः आवश्यकाः व्यवस्थाः करिष्यन्ते।

योजनायाः एषा विशेषता अपि भविष्यति यत् रेलयानानां कोचाः राजस्थानस्य विंशत्यधिकानां धार्मिक-धरोहराणां थीमेन सज्जयिष्यन्ते। तेषु प्रदेशस्य प्रमुखेषु मन्दिरेषु, लोक-संस्कृतौ, धार्मिक-स्थलेषु च दृश्यं दर्शयिष्यते, येन यात्रिणां राजस्थानस्य सांस्कृतिक-विरासतया संयोजनस्य अवसरः लभ्यते।

सर्वकारः अस्मिन् वारे षट्-सहस्रं वृद्धान् वायुयानेन अपि तीर्थयात्रां कारयिष्यति। अनेन तेभ्यः वरिष्ठ-नागरिकेभ्यः राहतिः लभ्यते ये दीर्घां रेलयात्रां कर्तुम् असमर्थाः सन्ति। योजनां विषये वृद्धेषु विशेषः उत्साहः दृश्यते, बहुसंख्याकानाम् आवेदनानाम् आगमनस्य च सम्भावना प्रकट्यते।

देवस्थान-विभागस्य अनुसारम् यात्रायाः काले वरिष्ठ-नागरिकानां सुविधायै चिकित्सा-दलस्य, सुरक्षा-कर्मिणां, सहायक-कर्मचारिणाञ्च विशेषा व्यवस्था भविष्यति। यात्रिभ्यः भोजनस्य, वासस्य, स्वास्थ्यसम्बन्धीनाञ्च सुविधानाम् उपलब्धता भविष्यति। आवश्यकतायां प्राथमिक-उपचारस्य आपातकालीन-चिकित्सा-सुविधायाश्च प्रदानमपि भविष्यति। विभागस्य कथनम् अस्ति यत् यात्रा-प्रबन्धनं पूर्वतः एव सुदृढं क्रियते येन वृद्धेभ्यः कस्यापि प्रकारस्य कठिनतायाः सामनं न करणीयं भवेत्।

---------------

Hindusthan Samachar / Divya Ranjan