डॉ. मनसुख मांडविया नव दिल्ल्यां विमोचितो योगासनस्य प्रथमः वैश्विक प्रतिस्पर्धात्मकक्रीडाप्रयत्नः
नव दिल्ली, 26 मईमासः (हि.स.)। प्रथमस्य विश्वयोगासनस्पर्धायाः2026 संस्करणस्य मङ्गलवासरे नवीदिल्ली नगरे आधिकारिकम् अनावरणं कृतम्। एषा विश्वस्य प्रथमा अन्ताराष्ट्रियप्रतिस्पर्धात्मकयोगासनचैम्पियनशृंखला भविष्यति। केन्द्रीययुवकार्यक्रमक्रीडा तथा श्रम-
डॉ. मनसुख मांडविया ने नई दिल्ली में लॉन्च की योगासन की पहली वैश्विक प्रतिस्पर्धात्मक खेल पहल


नव दिल्ली, 26 मईमासः (हि.स.)।

प्रथमस्य विश्वयोगासनस्पर्धायाः2026 संस्करणस्य मङ्गलवासरे नवीदिल्ली नगरे आधिकारिकम् अनावरणं कृतम्। एषा विश्वस्य प्रथमा अन्ताराष्ट्रियप्रतिस्पर्धात्मकयोगासनचैम्पियनशृंखला भविष्यति। केन्द्रीययुवकार्यक्रमक्रीडा तथा श्रम-रोजगारमन्त्री मनसुखमानदाविया महाभागेन महासंघस्य पदाधिकारिणां तथा विभिन्नक्रीडासङ्गठनानां प्रतिनिधीनां उपस्थितौ अस्य वैश्विकक्रीडाप्रयत्नस्य शुभारम्भः कृतः।

विश्वयोगासनचैम्पियनशिप २०२६ इत्यस्य आयोजनम् ४ जूनतः ८ जूनपर्यन्तम् अहमदाबादनगरस्य एका एरीनायां भविष्यति। प्रतियोगितायां षष्ट्यधिकदेशानां क्रीडकाः प्रतिनिधिमण्डलानि च सहभागित्वं करिष्यन्ति। युगांडा, जाम्बिया, श्रीलंका, नेपाल, केन्या, जापान, ओमान, मॉरीशस तथा नीदरलैण्ड्स इत्यादीनां विश्वस्य अनेकदेशानां सहभागिता अस्य आयोजनस्य ऐतिहासिकवैश्विकपहिचानं प्रददाति। एषा चैम्पियनशिप योगासनं अन्ताराष्ट्रियस्तरे मान्यताप्राप्तप्रतिस्पर्धात्मकक्रीडारूपेण स्थापयितुं तथा भविष्ये ओलम्पिकमान्यता प्राप्तुं भारतस्य महत्त्वपूर्णप्रयत्नरूपेण मन्यते।

कार्यक्रमकाले आधिकारिकलोगो, ट्रॉफी, जर्सी तथा ‘वीर’ इति सिंहमैस्कॉटः अपि अनावृतः। आयोजनस्य विषयवस्तु भारतस्य सांस्कृतिकविरासत्, युवाशक्ति, वैश्विकएकता तथा आधुनिकक्रीडाउत्कृष्टतां प्रदर्शयति। विश्वयोगासनचैम्पियनशिप इत्यस्य कृते युवा कार्यक्रम एवं खेल मन्त्रालय, आयुष मन्त्रालयः, स्पोर्स अथोरटीओफइंडिया, गुजरातक्रीडाप्राधिकरणम्, गुजरातपर्यटनम् तथा गुजरातयोगासनस्पोर्ट्सएसोसिएशन इत्यादीनां सहयोगः प्राप्तः अस्ति।

केन्द्रीयमन्त्री डॉ. मनसुखमांडविया महाभागः अस्मिन् अवसरे उक्तवान् यत् अधुना भारतं योगासनं वैश्विकस्तरे प्रतिस्पर्धात्मकक्रीडारूपेण स्थापयितुं दिशि तीव्रतया अग्रे गच्छति। विश्वयोगासनचैम्पियनशिप अस्माकं युवाशक्तेः, अस्माकं संस्कृतेः तथा वैश्विकक्रीडाक्षेत्रे भारतस्य वर्धमानभूमिकायाः प्रतीकं अस्ति। तेन उक्तं यत् एतदायोजनं योगासनाधारितक्रीडाअर्थव्यवस्थायै नूतनां दिशं दास्यति तथा विश्वस्य क्रीडकान् भारतेन सह सम्बद्धान् करिष्यति।

विश्वयोगासन तथा योगासनभारतस्य महासचिवः डॉ. जयदीपआर्यः उक्तवान् यत् पञ्चमहाद्वीपेभ्यः प्राप्ता सहभागिता एतस्य सूचिका अस्ति यत् योगासनं शीघ्रतया वैश्विकक्रीडारूपेण उदेति। तेन उक्तं यत् अस्माकं लक्ष्यं केवलं चैम्पियनशृंखलायाः आयोजनं न, अपितु योगासनं आधुनिकक्रीडामानकानुसारं विश्वस्तरीयक्रीडानुशासनरूपेण स्थापयितुम् अस्ति।

योगासनभारतस्य अध्यक्षः उदितशेठः उक्तवान् यत् योगासनं भारतस्य विश्वाय महत् क्रीडायोगदानं भवितुम् अर्हति। एषा केवलं प्रतियोगिता न, अपितु भारतात् आरब्धः वैश्विकक्रीडाअभियानः अस्ति, यस्मिन् आधुनिकस्कोरिंग, प्रशिक्षण तथा ब्रॉडकास्टिंगसिस्टमः समाविष्टाः सन्ति।

एशियनयोगासनस्य अध्यक्षः डॉ. संजयमालपानी उक्तवान् यत् एशियासहितविश्वस्य अनेकभागेषु योगासनं युवा-क्रीडकानां मध्ये शीघ्रतया लोकप्रियं भवति।

विश्वयोगासनस्य सचिवा एकताबौडरलीक महोदया उक्तवती यत् योगासनं बालकेषु युवासु च सन्तुलनम्, एकाग्रता, धैर्यं तथा अनुशासनम् इत्यादीन् गुणान् विकसितुं समर्थं प्रभावशालिक्रीडारूपं भवितुम् अर्हति।

चैम्पियनशिपायां पारम्परिकयोगासनम्, आर्टिस्टिकयोगासनम्, रिदमिकपेयर्स तथा टीमइवेन्ट्स इत्यादयः स्पर्धाः आयोज्यन्ते। क्रीडकाः जूनियर, यूथ तथा एलीटवर्गेषु अन्ताराष्ट्रियनियमानुसारं प्रतिस्पर्धां करिष्यन्ति। विशेषज्ञानां मतानुसारम् एतदायोजनं योगासनं भविष्ये विशालमल्टीस्पोर्टइवेन्ट्स तथा ओलम्पिकपर्यन्तं नेतुं दिशि महत्वपूर्णम् आधारं निर्मास्यति।

विश्वयोगासनचैम्पियनशृंखला २०२६ केवलं क्रीडायोजनं न, अपितु भारतस्य प्राचीनयोगपरम्परायाः आधुनिकक्रीडाउत्कृष्टतायाश्च संगमरूपेण दृश्यते। एतदायोजनं भारतं वैश्विकवेलनेस तथा क्रीडानेतृत्वस्य केन्द्ररूपेण अधिकं सुदृढीकरिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani