Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २६ मे-मासः (हि.स.)। राज्ये प्रशासनिककार्याणां गतिवर्धनाय विविधविभागानां मध्ये समन्वयं सुदृढं कर्तुं च मुख्यमन्त्री शुभेन्दु-अधिकारी सोमवासरे नवान्नसभागारे राज्यस्य चतुस्त्रिंशत् विभागानां सचिवैः सह महत्त्वपूर्णां सभाम् अकरोत्। सभायां मुख्यमन्त्रिणा स्पष्टनिर्देशः दत्तः यत् राज्ये “शतदिवसीय-ग्रामीणरोजगारपरियोजना” शीघ्रं प्रारभ्यताम्। तथापि मुख्यमन्त्री उक्तवान् यत् दक्षिण-चतुर्विंशतिपरगणा तथा मुर्शिदाबाद-जनपदयोः अद्यापि एषा योजना न प्रवर्तिष्यते। एतयोः जनपदयोः विना राज्यस्य अन्येषु सर्वेषु जनपदेषु ग्रामीणरोजगारपरियोजनां प्रारब्धुं सम्बद्ध-विभागेभ्यः आवश्यक-पदानि ग्रहीतुं निर्देशः दत्तः।
प्रशासनिकसूत्रानुसारं पूर्ववर्तिन्याः तृणमूलकाङ्ग्रेससर्वकारस्य कार्यकाले शतदिवसीयकार्ययोजनायां सर्वाधिकभ्रष्टाचारस्य आरोपाः दक्षिण-चतुर्विंशतिपरगणा तथा मुर्शिदाबाद-जनपदयोः समुत्थिताः आसन्। आरोपाः आसन् यत् मिथ्याजॉब-पत्राणि निर्मितानि, कार्यं विना धननिष्कासनं कृतम्, कोटिशः रुप्यकाणां व्ययः च अभवत्। एतेषाम् आरोपाणां परीक्षणं सम्पूर्णं यावत्, तावत् एतयोः जनपदयोः योजनां न प्रारब्धुं निर्णयः कृतः अस्ति।
उल्लेखनीयम् अस्ति यत् एतेषामेव भ्रष्टाचारारोपाणां आधारेण केन्द्रसर्वकारेण राज्ये शतदिवसीयकार्ययोजनायै वित्तीय-विनियोजनं स्थगितम् आसीत्।
वर्तमानसर्वकारेण परीक्षणसमाप्तिपर्यन्तं सावधानदृष्टिकोणः धारयितुं निश्चयः कृतः। सभायां मुख्यमन्त्री एतदपि उद्घोषितवान् यत् अधुना प्रतिमासं सर्वविभागानां सचिवैः सह नियमितसमन्वयसभा आयोज्यते, येन प्रशासनिकस्तरे शीघ्रनिर्णयाः परियोजनानां प्रगतिसमीक्षा च नियमितरूपेण भवेत्। सभायां दीर्घकालात् चर्चायां वर्तमानस्य घाटाल-मास्टरप्लान-विषयेऽपि विस्तरेण चर्चा अभवत्। जलवर्धननियन्त्रणाय जलनिकास-व्यवस्थायाश्च सुधारार्थं आरब्धायाः अस्याः परियोजनायाः प्रगतिः पूर्ववर्तिसर्वकारस्य समये मन्दा आसीत्। अधुना नूतनसर्वकारः तस्याः शीघ्रकार्यान्वयनदिशि अग्रे गच्छति।
सभायां निर्णयः कृतः यत् घाटाल-मास्टरप्लान-परियोजना केन्द्रराज्यसर्वकारयोः संयुक्तसहयोगेन कार्यान्विता भविष्यति। परियोजनायाः व्ययं उभे सर्वकारे पञ्चाशत् पञ्चाशत् प्रतिशतमानेन वहिष्यतः। सम्बद्धविभागेभ्यः वित्तीयविनियोजनस्य परियोजनारूपरेखायाश्च अन्तिमरूपदाने प्रक्रियां प्रारब्धुं निर्देशः दत्तः। प्रशासनस्य मतम् अस्ति यत् परियोजना सम्पन्ना सति पश्चिममेदिनीपुरे समीपवर्तिषु च विशालप्रदेशेषु जलवर्धनसमस्यायाः स्थायिसमाधानं सम्भविष्यति।
मुख्यमन्त्री स्वास्थ्यसेवाविषयेऽपि महत्त्वपूर्णान् निर्देशान् दत्तवान्। तेन स्वास्थ्यविभागस्य सचिवाय निर्देशः दत्तः यत् आयुष्मानभारतयोजनासम्बद्धः सन्धिः अग्रिमम् अष्टम-जनदिनाङ्कपर्यन्तं अन्तिमरूपेण सिद्ध्यतु। सहैव राज्ये केन्द्रीयस्वास्थ्ययोजनायाः कार्यान्वयने कापि विलम्बः न भवेत् इत्यपि बलं दत्तम्। अस्य अतिरिक्तम् अग्रिमे एकादश-जनदिनाङ्के देहल्यां आयोज्यमानायाः नीति-आयोगस्य सभायाः सज्जताविषयेऽपि चर्चा अभवत्। प्रथमवारं पश्चिमबङ्गस्य मुख्यमन्त्रिरूपेण शुभेन्दु-अधिकारी अस्यां सभायां सहभागं करिष्यति। तदर्थं सर्वविभागेभ्यः राज्यस्य विकासपरियोजनानां वित्तीयस्थितेः भविष्ययोजनानां च विषये विस्तृतप्रतिवेदनं सज्जीकर्तुं निर्देशः दत्तः। प्रशासनिकसूत्रानुसारं प्रत्येकं विभागाय निर्धारितसमयसीमायाः अन्तर्गतं स्वप्रस्तावान् आवश्यकाङ्कांश्च समर्पयितुं कथितम्।
Hindusthan Samachar / Divya Ranjan