‘रीडिंग ऑवर’ इत्यस्मै ‘समाचार-पत्र पठनाय’ लप्स्यते नूतनं बलम् : मंत्री संदीप सिंह
विद्यालयेषु पठन संस्कृतिः सुदृढीकर्तुम् अभियानं तीव्रम् लखनऊ, 26 मईमासः (हि.स.)। उत्तरप्रदेशस्य बेसिक तथा माध्यमिकविद्यालयेषु पठनसंस्कृतेः सुदृढीकरणस्य उद्देश्येन राज्यशासनेन शैक्षिकसत्रस्य २०२६-२७ आरम्भेन सह व्यापकस्तरे अभियानस्य तीव्रीकरणाय
उत्तर प्रदेश के शिक्षा मंत्री संदीप सिंह


विद्यालयेषु पठन संस्कृतिः सुदृढीकर्तुम् अभियानं तीव्रम्

लखनऊ, 26 मईमासः (हि.स.)।

उत्तरप्रदेशस्य बेसिक तथा माध्यमिकविद्यालयेषु पठनसंस्कृतेः सुदृढीकरणस्य उद्देश्येन राज्यशासनेन शैक्षिकसत्रस्य २०२६-२७ आरम्भेन सह व्यापकस्तरे अभियानस्य तीव्रीकरणाय निर्देशाः प्रदत्ताः। मुख्यमन्त्रिणः योगीआदित्यनाथस्य मार्गदर्शने बालकेषु पठनाभ्यासः, भाषादक्षता, तार्किकचिन्तनम् तथा रचनात्मकाभिव्यक्तेः विकासाय विशेषबलं दीयते।

प्रदेशस्य बेसिकशिक्षाराज्यमन्त्री (स्वतन्त्रप्रभार) संदीपसिंह महोदयेन उक्तं यत् राज्यशासनं शिक्षां केवलं पाठ्यक्रमपर्यन्तं सीमितां न स्थापयित्वा विद्यार्थिनां समग्रविकासाय कार्यं करोति। तेन उक्तं यत् पठनसंस्कृतेः सुदृढीकरणं अस्माकं शिक्षातन्त्रस्य प्राथमिकता अस्ति। यदा बालकाः नियमितरूपेण पठिष्यन्ति तदा तेषां भाषाक्षमता, संवादकौशलम् तथा तार्किकचिन्तनं स्वतः विकसितं भविष्यति। एतदर्थं सर्वेषु विद्यालयेषु ‘रीडिंगऑवर’, ‘समाचारपत्रपठन’ तथा ‘डीईएआर अभियान’ प्रभावीरूपेण प्रवर्त्यन्ते।

तेन उक्तं यत् विद्यार्थिषु रचनात्मकता तथा स्वतन्त्रचिन्तनस्य प्रोत्साहनार्थं पठनक्रियया सह लेखनगतिविधयः अपि प्रोत्साह्यन्ते। विद्यालयेषु लेखनस्पर्धाः, पुस्तकसमीक्षा तथा समाचाराधारितलेखनकार्यक्रमाः संचालिताः भविष्यन्ति, येन छात्राः छात्राश्च स्वाभिव्यक्तिं अधिकं सुदृढां कर्तुं शक्नुवन्ति।

अस्य विषये अपरमुख्यसचिवेन बेसिक तथा माध्यमिकशिक्षाविभागस्य पार्थसारथिसेनशर्मा महोदयेन पूर्वं निर्गतदिशानिर्देशानां प्रभावीक्रियान्वयनस्य सुनिश्चितीकरणार्थं समस्तसम्बद्धाधिकारिभ्यः, प्राचार्यडायट, एडीबेसिक, बीएसए तथा बीईओ इत्येतेभ्यः व्यक्तिगतसमर्पितप्रयत्नानां करणाय निर्देशाः प्रदत्ताः। शासनस्य उद्देश्यं विद्यालयेषु सकारात्मकपठनवातावरणस्य निर्माणं अस्ति, येन विद्यार्थी नियमितरूपेण पुस्तकैः तथा समाचारपत्रैः सम्बद्धाः भवितुं शक्नुवन्ति।

शासनेन निर्देशितं यत् विद्यालयेषु नियमितरूपेण ‘रीडिंगऑवर’ आयोज्यताम्, प्रार्थनासभायां समाचारवाचनं समावेश्यताम् तथा छात्रान् पुस्तकपठनाय प्रेरयन्तु। अस्य सह ‘ड्रॉपएवरीथिंगएण्डरीड (डीईएआर)’ अभियानस्य अन्तर्गतं सप्ताहे निर्धारितसमये सर्वे छात्राः छात्राश्च शिक्षकाः च स्वेच्छया स्वपसन्दस्य पुस्तकानां पठनं करिष्यन्ति।

प्राथमिकस्तरे ‘सुपर-२०’ तथा उच्चप्राथमिकस्तरे ‘सुपर-३०’ रीडिंगचैलेंज अपि तीव्रतया प्रवर्त्यते। निर्धारितसंख्यायाः पुस्तकानां पठनं कुर्वन्तः विद्यार्थी सम्मानिताः भविष्यन्ति तथा विद्यालयस्तरे सर्वाधिकपुस्तकपठनकर्तारौ छात्रः छात्रा वा ‘चैम्पियनरीडरऑफदइयर’ इति घोषितौ पुरस्कृतौ च भविष्यतः।

अतिरिक्तरूपेण विद्यार्थिनः पठितसामग्रीआधारितलेखनकार्येषु, कथालेखने, समीक्षालेखने तथा अन्यासु रचनात्मकगतिविधिषु सहभागीकरणं करिष्यते, येन तेषां चिन्तनशक्ति:, अभिव्यक्तिक्षमता तथा विश्लेषणक्षमतायाः समुचितविकासः भवेत्।

---------------

Hindusthan Samachar / Dheeraj Maithani