औद्योगिक अपशिष्ट जल शोधने महती सफलता: आईआईटीकाशीहिंदुविश्वविद्यालयः अथ च पारुलविश्वविद्यालयो विकसितस्य हरिततकनीकी
वाराणसी, 26 मईमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थानस्य (काशीहिन्दूविश्वविद्यालयस्य) तथा पारुलविश्वविद्यालयस्य शोधकर्तारः औद्योगिकअपशिष्टजले विद्यमानां अत्यन्तविषैलीं कर्कटरोगकारिणीं च डाई “मैलाकाइटग्रीन” इत्यस्य निष्कासनार्थम् अत्याधुनिकां पर्याव
फोटो प्रतीक


वाराणसी, 26 मईमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थानस्य (काशीहिन्दूविश्वविद्यालयस्य) तथा पारुलविश्वविद्यालयस्य शोधकर्तारः औद्योगिकअपशिष्टजले विद्यमानां अत्यन्तविषैलीं कर्कटरोगकारिणीं च डाई “मैलाकाइटग्रीन” इत्यस्य निष्कासनार्थम् अत्याधुनिकां पर्यावरणानुकूलां च तकनीकं विकसितवन्तः। शोधकर्तॄणाम् एषा उपलब्धिः औद्योगिकजलप्रदूषणस्य गम्भीरसमस्यायाः समाधानदिशि महत्वपूर्णं पदक्षेपत्वेन मन्यते। एतत् संयुक्तशोधकार्यं आईआईटीबीएचयू इत्यस्य स्कूलऑफबायोकेमिकलइंजीनियरिंग तथा पारुलविश्वविद्यालयस्य पारुलइन्स्टीट्यूटऑफटेक्नोलॉजी इत्यस्य रासायनिकअभियांत्रिकीविभागेन सम्पन्नम्। शोधदलस्य नेतृत्वं आईआईटीबीएचयू इत्यस्य एसोसिएटप्रोफेसर डॉ. विशालमिश्रः अकरोत्। दले आलोकतिवारी, गौरांगडामले, डॉ. शिवेन्दुसक्सेना, डॉ. विशालसांधवार, दीक्षासक्सेना तथा जेएसपीएमविश्वविद्यालयस्य डॉ. दीपकजाधवः अपि समाविष्टाः आसन्। शोधस्य निष्कर्षाः प्रतिष्ठितस्य रॉयलसोसाइटीऑफकेमिस्ट्री इत्यस्य जर्नले प्रकाशिताः सन्ति।

शोधकर्तृभिः विकसितेयं नवीननैनोकॉम्पोजिटतकनीकः पूर्णतया हरिता अपशिष्टाधारिता च अस्ति। अस्याम् सन्तराछिलकानाम् अर्कस्य उपयोगः प्राकृतिकरिड्यूसिंगएजेन्ट् रूपेण कृतः अस्ति। वैज्ञानिकैः टिनऑक्साइडनैनोकणेषु पॉलिएनिलीन तथा पॉलीपाइरोल इत्ययोः सह-पॉलिमरितस्तरः इन-सीटूपॉलिमराइजेशनतकनीकया विकसितः। अस्याः तकनीकायाः प्रमुखविशेषता एषा यत् अस्याम् सन्तराछिलकवत् शून्यलागतयुक्तस्य नवीकरणीयअपशिष्टपदार्थस्य उपयोगः कृतः अस्ति। विकसितप्रणाली केवलं त्रिंशन्मिनिटेषु ९७.०६ प्रतिशतपर्यन्तं मैलाकाइटग्रीनडाई निष्कासने समर्था अस्ति। सहैव अस्याः एडसॉर्प्शनक्षमता १२५० एमजी/जी इति अभिलिखिता, या एतां अत्यधिकप्रभावशालिनीं करोति।

शोधकर्तॄणां मतानुसारम् अस्यां तकनीकायां महङ्गयन्त्राणां, खतरनाकरसायनानां अथवा विशेषप्रशिक्षितश्रमिकाणां आवश्यकता न भवति। एषा अविषाक्ता, जैवसंगता तथा औद्योगिकस्तरे सुगमतया उपयोगयोग्या अस्ति। उल्लेखनीयं यत् विश्वस्य सर्वत्र औद्योगिकएककाभ्यः निर्गच्छत् डाईयुक्तम् अपशिष्टजलम् गम्भीरं पर्यावरणीयसंकटं जातम् अस्ति। मैलाकाइटग्रीन इति तादृशं रसायनम् अस्ति यत् विषाक्तं, कर्कटरोगकारि तथा जैविकरूपेण अनपघटनीयत्वात् मानवस्वास्थ्यस्य जलीयजीवानां च कृते अत्यन्तं घातकं मन्यते।

अस्याः उपलब्धेः विषये प्रसन्नतां व्यक्तीकुर्वन् आईआईटीबीएचयू इत्यस्य निदेशकः प्रो. अमितपात्रः शोधकर्तॄन् अभिनन्दितवान्। तेन उक्तं यत् एतादृशं सहयोगात्मकम् अनुप्रयुक्तं च शोधकार्यं सामाजिकपर्यावरणीयचुनौतीनां समाधानार्थं संस्थानस्य सततप्रौद्योगिकीविकासप्रतिबद्धतां दर्शयति। शोधकर्ता डॉ. विशालमिश्रः उक्तवान् यत् एतदध्ययनं विभिन्नसंस्थानानां मध्ये सुदृढशैक्षणिकशोधसहयोगस्य उत्कृष्टम् उदाहरणम् अस्ति। तेन उक्तं यत् बायोकेमिकलइंजीनियरिंग तथा उन्नतपदार्थविज्ञानयोः समन्वयेन औद्योगिकअपशिष्टजलशोधनार्थं व्यावहारिकं किफायतीं च समाधानं विकसितम् अस्ति।

शोधदलेन उक्तं यत् भविष्ये अस्याः तकनीकायाः पुनरुपयोगक्षमतायाः तथा वास्तविकऔद्योगिकअपशिष्टजलप्रणालीषु अस्याः प्रदर्शनस्य परीक्षणं क्रियिष्यते, येन एतां विशालस्तरे उद्योगेषु कार्यान्वितुं शक्येत।

Hindusthan Samachar / Dheeraj Maithani