गङ्गादशहरायां मातुः गङ्गायाः एकपञ्चाशल्लीटरपरिमितेन दुग्धेन अभिषेकः कृतः, अहिल्याबाईघाटे षोडशोपचारपूजनञ्च सम्पन्नम्
वाराणसीनगरम्, २६ मे-मासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगर्यां वाराणस्यां (काश्यां) विप्रसमाजकाशीसंस्थायाः तत्त्वावधानेन मङ्गलवासरे गङ्गादशहरापर्व उल्लासपूर्णवातावरणे अहिल्याबाईघट्टे श्रद्धाभावेन समाचरितम्। घट्टे वाराणसीनगरदक्षिणक्षेत्रस्य विधायकः
e99c4a03fff8da86d2655f82d340fe59_509637049.jpg


वाराणसीनगरम्, २६ मे-मासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगर्यां वाराणस्यां (काश्यां) विप्रसमाजकाशीसंस्थायाः तत्त्वावधानेन मङ्गलवासरे गङ्गादशहरापर्व उल्लासपूर्णवातावरणे अहिल्याबाईघट्टे श्रद्धाभावेन समाचरितम्। घट्टे वाराणसीनगरदक्षिणक्षेत्रस्य विधायकः डॉ.नीलकण्ठतिवारी इत्यस्य नेतृत्वे शास्त्रार्थमहाविद्यालयस्य एकपञ्चाशत् बटुकैः वैदिकमन्त्रौच्चारणमध्ये मातुः गङ्गायाः दुग्धाभिषेकः कृतः।

प्रारम्भे कार्यक्रमसंयोजकसंस्थायाः अध्यक्षः डॉ.पवनशुक्लः संयोजकरूपेण तथा वैदिकाचार्यः पण्डित: उदितनारायणमिश्रः आचार्यत्वेन स्थित्वा बटुकब्राह्मणैः षोडशोपचारपूजनं कारितवान्। अस्मिन् पूजने गन्ध-अक्षत-पुष्पैः सह केशरस्यापि उपयोगः कृतः। नैवेद्यफलादीनि समर्प्य अनन्तरं एकपञ्चाशल्लीटरपरिमितेन दुग्धेन अभिषेकः सम्पन्नः।

अस्मिन् अवसरे विधायकः डॉ.नीलकण्ठतिवारी उक्तवान् यत् हिन्दुधर्मे गङ्गादशहरायाः (गङ्गावतरणस्य) अत्यन्तं पवित्रम् आध्यात्मिकं च महत्त्वम् अस्ति। ज्येष्ठमासस्य शुक्लपक्षस्य दशमीतिथौ आचर्यमाणम् एतत् पर्व मातुः गङ्गायाः स्वर्गात् पृथिव्यां अवतरणस्य स्मृत्यर्थं मन्यते। अस्मिन् दिने गङ्गानद्यां स्नानं दानपुण्यादिकञ्च कृत्वा सर्वपापेभ्यः मुक्ति: मोक्षप्राप्तिश्च भवति।

तेन पौराणिकी कथा अपि निर्दिष्टा यत् राज्ञा भगीरथेन स्वपूर्वजानां मोक्षार्थम् उद्धारार्थञ्च कठोरतपस्या कृता आसीत्। तस्य प्रार्थनया प्रसन्ना भूत्वा माता गङ्गा पृथिव्याम् अवतीर्णा। अद्य समाजोन्नत्यर्थं जनैः भगीरथप्रयत्नात् सर्वदा प्रेरणा ग्राह्या इति तेन उक्तम्।

कार्यक्रमे प्रमोदकुमारमिश्रः, रमेशतिवारी, विशाल-औढेकरः, नवीनकसेरा, डॉ.अशेषनारायणद्विवेदी, संजयउपाध्यायः, किशोरीरामणदूबे ‘बाबूमहाराज’, अधिवक्ता प्रकाशगुप्तः, आकाशपाठकः इत्यादयः सहभागिनः अभवन्।

Hindusthan Samachar / Divya Ranjan