Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 26 मईमासः (हि.स.)।रुड़कीस्थेन भारतीयप्रौद्योगिकीसंस्थानेन हाइड्रो तथा नवीकरणीयऊर्जाविभागस्य माध्यमेन पिनाकाग्रीनप्राइवेटलिमिटेडस्य सहयोगेन उत्तराखण्डइण्डस्ट्री-अकादमिककॉन्क्लेवऑनहाइड्रोजन (यूआइएसीएच-२०२६) इत्यस्य आयोजनं कृतम्। अस्मिन् कॉन्क्लेवमध्ये नीतिनिर्मातारः, उद्योगजगतः प्रतिनिधयः, शोधकर्तारः तथा ऊर्जाक्षेत्रसम्बद्धविशेषज्ञाः सहभागित्वा ग्रीनहाइड्रोजन, स्वच्छऊर्जासंक्रमणं तथा हाइड्रोजनअर्थव्यवस्थायाः भविष्यविषये मन्थनं कृतवन्तः।
कार्यक्रमस्य प्रमुखविशेषता “उत्तराखण्डहाइड्रोजनवैली” इति अवधारणा आसीत्, यस्यां आईआईटीरुड़की इत्यस्य केन्द्रीयज्ञाननवाचारकेन्द्ररूपेण विकासस्य प्रस्तावः प्रस्तुतः। अस्य प्रतिमानस्य अन्तर्गतं उद्योगान्, शासकीयसंस्थानानि, स्टार्टअप्स तथा शोधसंस्थानानि संयोज्य उत्पादनं, भण्डारणं, परिवहनं तथा औद्योगिकोपयोगं सहितं सम्पूर्णहाइड्रोजनमूल्यशृङ्खलायाः विकासस्य योजना निर्मिता।
मुख्यातिथिः प्रमुखसचिवः डॉ. आर. मीनाक्षीसुन्दरम् उक्तवान् यत् ग्रीनहाइड्रोजनं भविष्यस्य ऊर्जासुरक्षायाः तथा स्वच्छऔद्योगिकविकासस्य प्रमुखाधारः भवितुं शक्नोति। अपरतः आईआईटीरुड़कीसंस्थानस्य निदेशकः प्रो. केकेपन्तः उक्तवान् यत् एतादृशानि मञ्चानि स्वच्छऊर्जासमाधानानां तथा सततऔद्योगिकपरिवर्तनस्य गतिवर्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति। कॉन्क्लेवस्य कालॆ सहभागिभिः ऋषिकेशस्थितस्य टीएचडीसी ग्रीनहाइड्रोजनप्लाण्ट इत्यस्य अपि भ्रमणं कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani