Enter your Email Address to subscribe to our newsletters

जयपुरम्, 26 मईमासः (हि.स.)।
बालकेषु कुपोषणं, रतौंधी तथा रोगप्रतिरोधकक्षमतावृद्ध्यर्थं चिकित्सा एवं स्वास्थ्यविभागः २९ मईतः २९ जून पर्यन्तं विशेषविटामिन-ए अनुपूरणाभियानं चालयिष्यति। अभियानस्य अन्तर्गतं ९ मासात् ५ वर्षपर्यन्तं बालकेभ्यः विटामिन-ए औषधमात्रा पाययिष्यते। एतदभियानं स्वास्थ्यविभागस्य महिला एवं बालविकासविभागस्य (आईसीडीएस) च संयुक्तसमन्वयेन संचालितं भविष्यति।
सीएमएचओ जयपुरप्रथमस्य डॉ. रविशेखावत महोदयेन उक्तं यत् आंगनबाडीकेंद्रेषु, उपस्वास्थ्यकेंद्रेषु, पीएचसी तथा राजकीयचिकित्सालयेषु औषधमात्रा पाययिष्यते। आशासहयोगिन्यः, एएनएम तथा आंगनबाडीकार्यकर्तारः गृहं गृहं सम्पर्कं कृत्वा पात्रबालकान् केंद्रेषु आनयिष्यन्ति। ब्लॉकस्तरे सूक्ष्मयोजना निर्मिता अस्ति तथा नगरीयग्रामीणक्षेत्रयोः कृते पृथक्पृथक्दलानि अपि निर्मितानि सन्ति।
सीएमएचओ जयपुरद्वितीयस्य डॉ. मनीषमित्तल महोदयेन उक्तं यत् विटामिन-ए बालकान् नेत्ररोगेभ्यः, अतिसारात् तथा निमोनियारोगात् रक्षितुं तेषां रोगप्रतिरोधकक्षमतां वर्धयितुं च सहायकरं भवति। उपमुख्यचिकित्साअधिकारिणा डॉ. सौरभार्य महोदयेन उक्तं यत् ९ मासात् १२ मासपर्यन्तं बालकेभ्यः १ एमएल मात्रा तथा १ वर्षात् ५ वर्षपर्यन्तं बालकेभ्यः २ एमएल मात्रा प्रदास्यते। येषु केंद्रेषु आशासहयोगिनी अथवा आंगनबाडीकार्यकर्त्री नास्ति, तेषु महिला स्वास्थ्यकार्यकर्त्र्यः एतां जिम्मेदारीं निर्वहिष्यन्ति।
उपमुख्यचिकित्साअधिकारिणा डॉ. धर्मेन्द्रकराडियामहोदयेन उक्तं यत् अभियानस्य काले जनजागरूकतासम्बद्धकार्यक्रमाः अपि चालयिष्यन्ते तथा निजीचिकित्सालयाः अपि एतेन सह सम्बद्धाः कृताः सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani