Enter your Email Address to subscribe to our newsletters

जयपुरम्, 26 मईमासः (हि.स.)।
विश्वतांबूलनिषेधदिवसस्य अवसरॆ स्वास्थ्यविभागस्य ओरतः जयपुरप्रथमजिलायां ३१ मई पर्यन्तं व्यापकजनजागरूकताभियानं चालयिष्यते। अभियानस्य अन्तर्गतं आयुष्मानआरोग्यमन्दिरेषु विविधस्वास्थ्यसंस्थानेषु च एएनएम तथा आशासहयोगिन्यः तम्बाकूनिषेधसम्बद्धविशेषकार्यक्रमान् आयोजयिष्यन्ति। मुख्यचिकित्साअधिकारिणा डॉ. रविशेखावत महोदयेन उक्तं यत् अभियानस्य कालॆ सामान्यजनान् बीडी, सिगरेट, जर्दा, खैनी, गुटखा तथा अन्यतम्बाकूउत्पादानां दुष्प्रभावेषु प्रति जागरूकाः क्रियन्ते।
सहैव तम्बाकूसेवनजनितशारीरिकमानसिकहानिविषये जानकारी प्रदाय जनान् नशात्यागाय प्रेरितं करिष्यते। तेन उक्तं यत् समुदायस्तरे रैली, प्रभातफेरी तथा जनसंपर्कगतिविधीनां माध्यमेन जनानां समीपं सन्देशः प्रेष्यते। आशा तथा एएनएम कार्यकर्तृभिः वीएचएसएनसी तथा महिलाआरोग्यसमितेः बैठकेषु अपि तम्बाकूनिषेधविषये विशेषचर्चा क्रियिष्यते।
अभियानस्य अन्तर्गतं तम्बाकूसेवनकर्तॄणां व्यक्तीनां परिचयः कृत्वा तेषां परामर्शः तथा आवश्यकरेफरलसेवाः उपलब्धाः कारयिष्यन्ते। ३१ मई दिनाङ्के विश्वतम्बाकूनिषेधदिवसे सर्वेषु आयुष्मानआरोग्यमन्दिरेषु विशेषकार्यक्रमाः आयोजयिष्यन्ते तथा आवश्यकतानुसारं उपचारार्थं निकटतमदन्तचिकित्सालये रेफर कर्तुं व्यवस्था भविष्यति। स्वास्थ्यविभागेन अभियानस्य प्रभावीनिरीक्षणार्थं जिला तथा ब्लॉकस्तरे निगराणीव्यवस्था अपि सुनिश्चितीकृता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani