Enter your Email Address to subscribe to our newsletters


खड़गपुरनगरम्, २६ मे-मासः (हि. स.)। स्पिक-मैके इत्यस्य एकादश-अन्ताराष्ट्रिय-सम्मेलनस्य उद्घाटनं सोमवासरे भारतीय-प्रौद्योगिकी-संस्थाने खड़गपुरे अभवत्। सप्तदिवसीयम् एतत् सम्मेलनं देश-विदेशेभ्यः आगतैः प्रायः सार्धैक-सहस्राधिकैः प्रतिनिधिभिः भारतीय-शास्त्रीय-सङ्गीतस्य, आध्यात्मिकस्य तथा सांस्कृतिक-परम्पराणां च अनुभवाय भविष्यति।
उद्घाटन-दिवसे राष्ट्रिय-पुरस्कार-विजेता अभिनेता रजित-कपूरेण सह एकं प्रेरकः संवाद-सत्रम् आयोजितम्। चर्चित-चलच्चित्रस्य ‘द मेकिंग ऑफ द महात्मा’ इत्यस्य प्रदर्शनानन्तरं सः आत्म-जागरूकता, उत्तरदायित्वं तथा व्यक्तित्व-निर्माणम् इति विषये स्वविचारान् प्रस्तुतवान्।
प्रतिनिधीन् सम्बोधयन् रजित-कपूर: उक्तवान् यत् केवलं आलोचनायै आलोचनां कर्तुं न, किन्तु स्वयं तत् एव परिवर्तनं भवेत् यत् समाजे द्रष्टुम् इच्छत।
सः युवानः स्वस्य सुविधाजनक-परिधेः बहिः निर्गत्य नवीनान् मार्गान् अन्वेष्टुं आह्वानं कृतवान् तथा स्व-परिचय-निर्माणाय जगति पादं स्थापयितुं, स्वविचारान् सर्वदिशासु मुक्तान् कर्तुं च उक्तवान्।
सम्मेलनस्य उद्घाटनं प्रातः भारतीय-प्रौद्योगिकी-संस्थाने खड़गपुरे प्लैटिनम-जयंती-समारोहस्य अन्तर्गतं पारम्परिक-दीप-प्रज्वलनेन सह अभवत्। स्पिक-मैके संस्थापकः डॉ. किरण-सेठः प्रतिनिधिभ्यः परिसरं ‘आश्रम’ तथा ‘गुरुकुल’ इति भावेन अनुभवितुं आह्वानं कृतवान्। वक्तारः सम्पूर्ण-सत्रेषु समयपालनस्य, अनुशासनस्य, सजगता-भावस्य तथा सांस्कृतिक-वातावरणे पूर्ण-भागित्वस्य महत्त्वं प्रतिपादितवन्तः।
अपराह्ण-सत्रे वरिष्ठ-स्पिक-मैके-सदस्यानां नेतृत्वे प्रतिनिधीनां तथा शिक्षकाणां कृते अभिमुखीकरण-कार्यक्रमः आयोजितः। स्पिक-मैके इत्यस्य राष्ट्रीय-महासचिवा मीनू-शङ्करः सम्मेलनस्य कार्यप्रणालीं तथा दर्शनं प्रकाश्य ब्रह्म-मुहूर्ते योग-ध्यान-साधनया दिनारम्भस्य महत्त्वं रेखाङ्कितवती।
स्पिक-मैके अध्यक्षः राधामोहन-तिवारी संस्कृतस्य प्रसिद्धं श्लोकम्—
काक-चेष्टा बको ध्यानं श्वान-निद्रा तथैव च।अल्पाहारी गृह-त्यागी विद्यार्थी पञ्च-लक्षणम्॥
उल्लेख्य छात्रेभ्यः समर्पणं, सतर्कता, सामान्यता, एकाग्रता तथा त्यागः आवश्यकगुणाः इति प्रतिपादितवान्।
अस्मिन् अवसरे इदम् अपि घोषितम् यत् स्पिक-मैके इत्यस्य स्वर्ण-जयंती-अवसरे द्वादशः अन्तर्राष्ट्रीय-सम्मेलनः भारतीय-प्रौद्योगिकी-संस्थाने दिल्ली इत्यत्र आयोजितः भविष्यति, यत् अस्य सांस्कृतिक-आन्दोलनस्य जन्मस्थली अस्ति।
सोमवासरे सायं मुख्य-सत्रे आईआईटी खड़गपुरस्य कार्यवाहक-निदेशिका प्रो.रिंतुबनर्जी मुख्यातिथिरूपेण उपस्थिताऽभवत्। ततः पूर्वं पद्मश्री-सम्मानित-कलाकारः शेशम्पट्टी टी.शिवलिङ्गम् नादस्वरम्-वादनेन दक्षिण-भारतीय-शास्त्रीय-सङ्गीतस्य गरिमां सजीवां कृतवान्। अस्मिन् काले रजित-कपूरः कलाकारं सम्मानितवान्।
रात्रौ उद्घाटन-दिवसस्य समापनं पद्मश्री-सम्मानित-उल्हास-कशालकरस्य हिन्दुस्तानी-शास्त्रीय-गायनेन अभवत्, येन सम्पूर्णः परिसरः ध्यानमयेन आध्यात्मिक-वातावरणेन आप्लावितः जातः।
मङ्गलवासरे हठ-योगः, नाद-योगः, ध्यान-साधना, श्रमदानं तथा विविधाः गहन-कार्यशालाः आयोज्यन्ते। सायंकाले सांस्कृतिक-सत्रेषु महमूद-फारूकी द्वारा दास्तानगोई, देबाशीष-रियाङ्गेन होजागिरी-नृत्यम् तथा शशाधर-आचार्य द्वारा सरायकेला-छऊ-नृत्यं प्रस्तुतं भविष्यति। दिवसस्य समापनं सुजाता-महापात्र-इत्यस्या: ओडिसी-नृत्येन तथा रोनू-मजूमदारस्य बांसुरी-वादनेन भविष्यति।
Hindusthan Samachar / Divya Ranjan