पूर्व-मुख्यमन्त्री भगत-सिंह-कोश्यारी पद्मभूषण-सम्प्रदानेन सम्मानितः
देहरादूननगरम्, २५ मे-मासः (हि.स.)। उत्तराखण्डस्य पूर्व-मुख्यमन्त्री महाराष्ट्रस्य पूर्व-राज्यपालः च भगतसिंहकोश्यारी लोककार्य-क्षेत्रे पद्मभूषण-पुरस्कारेण अलंकृतः। सोमवासरे राष्ट्रपतिः द्रौपदी-मुर्मुः राष्ट्रपतिभवने आयोजिते नागरिक-अलङ्करण-समारोहे तस
राष्ट्रपति भगत सिंह कोश्यारी को पद्मभूषण से सम्मानित करती हुई।


देहरादूननगरम्, २५ मे-मासः (हि.स.)। उत्तराखण्डस्य पूर्व-मुख्यमन्त्री महाराष्ट्रस्य पूर्व-राज्यपालः च भगतसिंहकोश्यारी लोककार्य-क्षेत्रे पद्मभूषण-पुरस्कारेण अलंकृतः। सोमवासरे राष्ट्रपतिः द्रौपदी-मुर्मुः राष्ट्रपतिभवने आयोजिते नागरिक-अलङ्करण-समारोहे तस्मै एतत् सम्मानन प्रदत्तवती।

उत्तराखण्डे ‘भगत-दाः’ इति नाम्ना प्रसिद्धः सः समाजसेवकः, शिक्षाविद्, पत्रकारः तथा समर्पित-राष्ट्रवादी-नेता इति रूपेण परिचितः। तेन स्वजीवनं निर्धन-पिछड़े-वर्गाणां उत्थानाय तथा जनसेवायै समर्पितम्। सः राष्ट्रिय-स्वयंसेवक-सङ्घस्य निष्ठावान् स्वयंसेवकः अपि आसीत्, तथा तस्य सरलता, अनुशासनं, शिक्षाग्रहण-प्रवृत्तिः च विशेषतया प्रसिद्धा अस्ति।

१७ जून् १९४२ तमे वर्षे उत्तराखण्डस्य बागेश्वर-जनपदे पलानधुरा-ग्रामे जातः सः १९६४ तमे वर्षे आगरा-विश्वविद्यालयसम्बद्ध-अल्मोड़ा-महाविद्यालयात् अंग्रेजी-साहित्ये स्नातकोत्तर-उपाधिं प्राप्तवान्।

१९६४–६५ कालखण्डे उत्तरप्रदेशस्य एटा-जनपदे राजा-का-रामपुर-स्थाने व्याख्याता रूपेण कार्यारम्भं कृत्वा पश्चात् शिक्षामाध्यमेन राष्ट्रनिर्माणाय पूर्णतः समर्पितः अभवत्।

१९९७ तमे वर्षे उत्तरप्रदेश-विधानपरिषदि नामनिर्देशनं प्राप्तवान्। उत्तराखण्ड-राज्यनिर्माणानन्तरं सः प्रथम-मन्त्रिमण्डले कैबिनेट-मन्त्री अभवत्, ततः उत्तराखण्डस्य मुख्यमन्त्री-पदम् अपि अलङ्कृतवान्। सः विधानसभायां प्रतिपक्ष-नेतृत्वमपि कृतवान्।

२००८ तमे वर्षे राज्यसभायां निर्वाचितः, २०१४ तमे वर्षे नैनीताल–ऊधमसिंहनगर-लोकसभा-क्षेत्रात् सांसदः अभवत्। २०१९ तमे वर्षे तस्य महाराष्ट्र-राज्यपाल-रूपेण नियुक्तिः अभवत्, तथा २०२० तमे वर्षे गोवा-राज्यपालस्य अतिरिक्त-भारः अपि तस्मै दत्तः।

सः लेखकः अपि अस्ति; तस्य ‘उत्तरांचल प्रदेश क्यों’ तथा ‘उत्तरांचल प्रदेश : संघर्ष एवं समाधान’ इति पुस्तके राज्य-आन्दोलनस्य विकास-दृष्टिं प्रकाशयतः।

उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह-धामी तथा भाजपा-प्रदेशाध्यक्षः महेन्द्र-भट्टः अपि तस्मै शुभकामनाः दत्त्वा एतत् देवभूमेः गौरवक्षणं इति उक्तवन्तौ।

Hindusthan Samachar / Divya Ranjan