Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 27 मईमासः (हि.स.)।
अखिलभारतीयविद्यार्थिपरिषदः (एबीवीपी) केन्द्रीयकार्यसमितेः सभा अद्य शिक्षा अनुसंधानविश्वविद्यालयपरिसरे प्रारब्धा।
सभायाः आरम्भः राष्ट्रियाध्यक्षेण प्रोरघुराजकिशोरतिवारी, राष्ट्रियमहामन्त्रिणा डॉवीरेन्द्रसिंहसोलंकी, राष्ट्रियसंगठनमन्त्रिणा आशीषचौहान इत्येतेषां दीपप्रज्वलनेन सह कृतः। संगठनस्य अनुसारं देशस्य विभिन्नराज्येभ्यः कुलम् १०६ कार्यकर्तारः पदाधिकारीणः च अस्यां सभायां सहभागित्वं कुर्वन्ति। सभायां संगठनात्मकविषयेषु, आगामिकार्यक्रमेषु छात्रहितसम्बद्धविषयेषु च चर्चा भविष्यति इति सम्भावना अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani