Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 27 मईमासः (हि.स.)।
केन्द्रीय कृषि एवं किसान कल्याण तथा ग्रामीण विकास मन्त्री शिवराजसिंहचौहानः वर्षस्य २०२५–२६ कृते प्रमुखकृषिफलानां तृतीयपूर्वानुमानानि प्रकाशितवान्। तेन उक्तं यत् देशस्य आहत्य खाद्यान्नोत्पादनं ३७६५.६३ लक्षटनपरिमितं भविष्यति इति अनुमानः अस्ति, यत् गतवर्षस्य ३५७७.३२ लक्षटनपरिमाणात् प्रायः १८८ लक्षटनानि तन्नाम५.३ प्रतिशताधिकं वर्तते। एतत् अद्यावधि सर्वाधिकोत्पादनमपि अस्ति। शिवराजसिंहचौहानः अवदत् यत् सर्वकारः कृषेः सुदृढीकरणाय कृषकाणां समृद्धिवृद्धये च निरन्तरं कार्यं करोति। एतेन कारणेन कृष्युत्पादने निरन्तरं सुधारः दृश्यते।
केन्द्रीयकृषिमन्त्री शिवराजसिंहः बुधवासरे माध्यमप्रतिनिधीन् उक्तवान् यत् फसलवारसारांशानुसारं कुलखाद्यान्नोत्पादनं ३७६५.६३ लक्षटनम् अस्ति। अस्मिन् चावलोत्पादनं १५४०.२४ लक्षटनम्, गोधूमोत्पादनं १२०६.५७ लक्षटनम्, मक्कोत्पादनं ५५०.९३ लक्षटनम् च अभिलेखस्तरे सन्ति। श्रीअन्नोत्पादनं १७५.८४ लक्षटनम्, तूरोत्पादनं ३५.९२ लक्षटनम्, चणकोत्पादनं १२५.१४ लक्षटनम्, मसूरोत्पादनं १७.६२ लक्षटनम् इति अनुमानितम् अस्ति। तथैव आतिलहनोत्पादनं ४३०.५९ लक्षटनम् अनुमानितम् अस्ति। अस्मिन् भूफलकफलोत्पादनं १३०.७४ लक्षटनैः सह अभिलेखस्तरे अस्ति, सोयाबीनोत्पादनं १२५.९६ लक्षटनम् अस्ति, तथा रेपसीडसरषपोत्पादनं १३७.६८ लक्षटनैः सह अभिलेखस्तरे वर्तते। इक्षुत्पादनं ५०००.६३ लक्षटनैः सह अभिलेखस्तरे अस्ति, यदा तु कर्पासोत्पादनं २९०.२४ लक्षगाठाः तथा जूटोत्पादनं ९१.७६ लक्षगाठाः अनुमानिताः सन्ति।
शिवराजसिंहस्य अनुसारं यदि फसलवारविस्तृताङ्कान् पश्यामः तर्हि चावलस्य कुलोत्पादनं १५४०.२४ लक्षटनम् अनुमानितम् अस्ति, यदा तु २०२४–२५ वर्षे तत् १५०१.८४ लक्षटनम् आसीत्। एवं ३८.४० लक्षटनवृद्धिः अभिलिखिता अस्ति। गोधूमोत्पादनं १२०६.५७ लक्षटनम् अनुमानितम् अस्ति, यत् गतवर्षस्य ११७९.४५ लक्षटनपरिमाणात् २७.१२ लक्षटनाधिकम् अस्ति। श्रीअन्नोत्पादनं १७५.८४ लक्षटनमितम् अनुमानितम् अस्ति। मक्कस्य कुलोत्पादनं अभिलेखस्तरे ५५०.९३ लक्षटनम् अनुमानितम् अस्ति, यत् गतवर्षस्य ४३४.०९ लक्षटनपरिमाणात् ११६.८४ लक्षटनाधिकम् अस्ति। पोषकस्थूलधान्यानां उत्पादनमपि सुदृढवृद्धिं प्राप्तवान्, तेषां कुलोत्पादनं ७४४.७२ लक्षटनम् अनुमानितम् अस्ति। चणकोत्पादनं १२५.१४ लक्षटनम् अनुमानितम् अस्ति, यत् गतवर्षस्य १११.१४ लक्षटनपरिमाणात् १४.०० लक्षटनाधिकम् अस्ति। मसूरोत्पादनं १७.६२ लक्षटनम् अनुमानितम् अस्ति।
तेन उक्तं यत् तिलहनफलेषु कुलतिलहनोत्पादनं ४३०.५९ लक्षटनम् अनुमानितम् अस्ति। भूफलकफलोत्पादनं १३०.७४ लक्षटनम् अनुमानितम् अस्ति, यत् गतवर्षस्य ११९.४२ लक्षटनपरिमाणात् ११.३२ लक्षटनाधिकम् अस्ति। सोयाबीनोत्पादनं १२५.९६ लक्षटनम् अनुमानितम् अस्ति। रेपसीडसरषपोत्पादनं १३७.६८ लक्षटनम् अनुमानितम् अस्ति, यत् गतवर्षस्य १२६.६७ लक्षटनपरिमाणात् ११.०१ लक्षटनाधिकम् अस्ति।
शिवराजसिंहः अवदत् यत् तृतीयपूर्वानुमानानि स्पष्टतया दर्शयन्ति यत् देशे खाद्यान्नानां, प्रमुखधान्यानां, तिलहनानां, वाणिज्यफलानां च उत्पादनस्थितिः सुदृढा वर्तते तथा अनेकासु फलेषु अभिलेखस्तरीयानुमानाः समुपस्थिताः सन्ति। तेन उक्तं यत् प्रमुखफलानाम् अनुमानिताधिकोत्पादने इंडियन काउंसलिंग ऑफ़ एग्रीकल्चर रिसर्च तथा तस्य संस्थानानां कृतेन कृषिशोधकार्येणापि महत्त्वपूर्णा भूमिका निर्वह्यते। एतेषु प्रयासेषु जलवायुसहनशीलप्रजातयः, वर्षानिर्भरउत्पादनप्रौद्योगिकी, तथा शोधसम्बद्धसूचनानां क्षेत्रपर्यन्तं प्रसारणं च अन्तर्भवति। वर्षे २०२५–२६ मध्ये आईसीआरद्वारा देशस्य विविधकृषिजलवायुप्रदेशानां कृते ३३९ कृषिप्रजातयः प्रकाशिताः, यासु धान्यवर्गाः, तिलहनवर्गाः, दलहनवर्गाः, वाणिज्यफसलाः तथा चारा-फसलाः अपि समाविष्टाः सन्ति।
वर्षे २०२४–२५ मध्ये ब्रीडरबीजोत्पादनं १०९३७०.२ क्विण्टलपर्यन्तं प्राप्तम्, यदा तु गुणवत्तायुक्तबीजोत्पादनं ४३३११४.७ क्विण्टलपर्यन्तं अभवत्।।
---------------
Hindusthan Samachar / Dheeraj Maithani