Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 27 मईमासः, (हि.स.)।
भारतीयजनतापक्षस्य विधायकः भूपेनबोरा बुधवासरे उक्तवान् यत् विपक्षनेतुः उत्तरदायित्वं कस्मै प्रदत्तम् इति दृष्ट्वा एतत् स्पष्टं जातम् यत् काङ्ग्रेसः वास्तवतः कस्य प्रतिनिधित्वं करोति। बोरा बुधवासरे विधानसभापरिसरे पत्रकारैः सह संवादं कुर्वन् आसीत्।
तेन उक्तं यत् अस्य निर्णयस्य माध्यमेन काङ्ग्रेसस्य राजनीतिकचिन्तनं तस्य समर्थनाधारः च जनानां पुरतः प्रकाशितः अभवत्। भूपेनबोराद्वारा एतदपि टिप्पणीकृता यत् काङ्ग्रेसस्य अन्तः “एपीसीसी (आर)” इति या योजना आसीत्, सा अधुना वास्तविकतायां परिणता।
तस्य अस्य वक्तव्यस्य अनन्तरं राज्यस्य राजनीतौ विपक्षदलानां नेतृत्वव्यवस्थां प्रतिनिधित्वं च विषयीकृत्य चर्चा तीव्रा अभवत्।
-----------
Hindusthan Samachar / Dheeraj Maithani