मुख्यमन्त्रिणा ‘बिरसा लिब्स इन न्यू भारत’ इति कार्यक्रमस्य शुभारम्भः कृतः, उक्तं च— “ज्ञानार्जनेन एव धनार्जनं सम्भवम् अस्ति” इति
पटनानगरम्, २७ मे-मासः (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राट-चौधरी बुधवासरे पटनानगरे मुख्यमन्त्री-सचिवालयस्थे ‘संवाद-सभागारे’ जनजातीय-गरिमा-उत्सव-२०२६ अन्तर्गतं आयोजितस्य ‘बिरसा लिब्स इन न्यू भारत’ इति विषयाधारितस्य कार्यक्रमस्य शुभारम्भं कृतवान्।
जनजातिय कार्यक्रम का उद्घाटन के दौरान सम्बोधन करते सीएम सम्राट चौधरी


पटनानगरम्, २७ मे-मासः (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राट-चौधरी बुधवासरे पटनानगरे मुख्यमन्त्री-सचिवालयस्थे ‘संवाद-सभागारे’ जनजातीय-गरिमा-उत्सव-२०२६ अन्तर्गतं आयोजितस्य ‘बिरसा लिब्स इन न्यू भारत’ इति विषयाधारितस्य कार्यक्रमस्य शुभारम्भं कृतवान्।

अस्मिन् अवसरे सः अनुसूचितजाति-अनुसूचितजनजाति-वर्गस्य प्रवेशिकोत्तर-छात्रवृत्ति-योजनायाः लाभार्थिभिः छात्रैः सह संवादं कृत्वा राज्य-सर्वकारस्य विविध-योजनानां विकास-कार्यक्रमाणां च विषये सूचनां दत्तवान्।

कार्यक्रमे भाषमाणः मुख्यमन्त्री अवदत् यत् विकसित-भारतस्य समृद्ध-बिहारस्य च कल्पनां साकारयितुं एषः कार्यक्रमः आयोजितः अस्ति। सः उक्तवान् यत् अनुसूचितजाति-जनजाति-विद्यार्थिनां कृते पोस्ट-मैट्रिक-छात्रवृत्ति-योजना ऐतिहासिक-प्रयासः अस्ति, या वंचित-वर्गाणां शिक्षामाध्यमेन उत्थाने महतीं भूमिकां निर्वहति।

मुख्यमन्त्री भगवान् बिरसा मुंडा इत्यस्य स्मरणं कुर्वन् तं आदिवासी-समाजस्य महानायकः इति वर्णितवान्। सः उक्तवान् यत् अस्य वर्षस्य तस्य १५०तम-जयंती-उत्सवः देशे आचर्यते, यस्य प्रारम्भः गतवर्षे १५ नवम्बर-दिने प्रधानमन्त्री नरेन्द्र-मोदीना कृतः।

मुख्यमन्त्री उक्तवान् यत् बिहार-झारखण्ड-विभाजनानन्तरं राज्ये वनावरणं ८–९ प्रतिशतं यावत् न्यूनम् आसीत्, किन्तु नीतिश-सर्वकारस्य प्रयासैः तत् वर्धित्वा अधुना प्रायः १५ प्रतिशतं जातम्, लक्ष्यं च १७ प्रतिशतं प्रति अस्ति।

सः अवदत् यत् केन्द्र-सर्वकारेण एकलव्य-मॉडल-आवासीय-विद्यालयाः स्थापिताः सन्ति, यत्र बिहार-बोर्ड-सहितं सीबीएसई-पाठ्यक्रमेण शिक्षा दीयते।

मुख्यमन्त्री अवदत् यत् राज्य-सर्वकारस्य पोस्ट-मैट्रिक-छात्रवृत्ति-योजनायाः अन्तर्गतं प्रायः एकलक्ष-चतु:सहस्रं छात्राः लाभान्विताः सन्ति, प्री-मैट्रिक-छात्रवृत्त्यां च २० लक्षं ४६ सहस्रं छात्राः लाभं प्राप्तवन्तः।

सः उक्तवान् यत् शिक्षैव विकसित-भारतस्य मूलाधारः अस्ति तथा “ज्ञानार्जनेन एव धनार्जनं सम्भवम्” इति प्रतिपादितवान्। अपि च सः थरूहट-विकास-योजनायाः अन्तर्गतं १८० कोटि-रूप्यकाणां योजनानां उल्लेखं कृतवान्।

अन्ते मुख्यमन्त्री छात्राणां उज्ज्वल-भविष्याय शुभकामनाः दत्त्वा उक्तवान् यत् सर्वकारः आदिवासी-समाजस्य शिक्षायाः आर्थिक-सशक्तीकरणाय च निरन्तरं कार्यं करिष्यति।

Hindusthan Samachar / Divya Ranjan