व्यापारसहमतये भारतम् आगमिष्यति अमेरिकीदलम्
नव दिल्ली, 27 मईमासः (हि.स.)।पारस्परिक तथा परस्परलाभकारीव्यापारसम्बद्धस्य अन्तरिमसम्झौतस्य कृते मुख्यवार्ताकारस्य नेतृत्वे अमेरिकीदलम् १ तः ४ जूनपर्यन्तं भारतदौरे आगमिष्यति। वाणिज्यमन्त्रालयेन अद्य एषा सूचना प्रदत्ता। मन्त्रालयस्य अनुसारम् अन्तरि
भारत अमेरिका


नव दिल्ली, 27 मईमासः (हि.स.)।पारस्परिक तथा परस्परलाभकारीव्यापारसम्बद्धस्य अन्तरिमसम्झौतस्य कृते मुख्यवार्ताकारस्य नेतृत्वे अमेरिकीदलम् १ तः ४ जूनपर्यन्तं भारतदौरे आगमिष्यति।

वाणिज्यमन्त्रालयेन अद्य एषा सूचना प्रदत्ता। मन्त्रालयस्य अनुसारम् अन्तरिमसहमतेः विवरणानां अन्तिमरूपनिर्धारणं तथा बाजारप्रवेशः, अकरउपायाः, सीमाशुल्कं, व्यापारसुविधा, निवेशप्रोत्साहनम्, आर्थिकसुरक्षासंरेखणम् इत्यादिषु अनेकक्षेत्रेषु व्यापकद्विपक्षीयव्यापारसहमतेः अन्तर्गतं वार्तां अग्रे नेतुं प्रस्तावः अस्ति।

उल्लेखनीयं यत् भारतः तथा अमेरिकादेशः ७ फरवरी तिथौ संयुक्तवक्तव्यं प्रकाशित्य पारस्परिक तथा परस्परलाभकारीव्यापारसम्बद्धस्य अन्तरिमसहमतेः रूपरेखायां सहमतिं व्यक्तवन्तौ। एषा रूपरेखा व्यापकभारत-अमेरिकाद्विपक्षीयव्यापारसम्झौतस्य वार्तायाः प्रति उभयदेशयोः प्रतिबद्धतां पुनः सुनिश्चितवती।

मन्त्रालयस्य अनुसारम् अस्यैव क्रमस्य अन्तर्गतं भारतीयपक्षः २० तः २३ अप्रैलपर्यन्तं वाशिङ्गटन डी.सी. नगरस्य दौरे गतवान् तथा स्वकीयैः अमेरिकीसमकक्षैः सह प्रत्यक्षोपवेशनं कृतवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani