Enter your Email Address to subscribe to our newsletters

नवदेहली, २७ मे-मासः (हि.स.)। केन्द्रीय-मन्त्रिमण्डलस्य सभायां बुधवासरे प्रचण्ड-उष्णता-लू-स्थितेः विषये चर्चा कृता। प्रधानमन्त्री राष्ट्राय आह्वानम् अपि कृतवान्। तस्य आह्वानानुसारं सर्वे मन्त्रालया: अधुना स्व-स्व-क्षेत्रसम्बद्धान् आवश्यक-उपायान् करिष्यन्ति।
प्रधानमन्त्री नरेन्द्र-मोदी-नेतृत्वे सम्पन्नायाः केन्द्रीय-मन्त्रिमण्डल-सभायाः अनन्तरं केन्द्रीय-मन्त्री अश्विनी-वैष्णवः अवदत् यत् मन्त्रिमण्डले वर्तमान-लू-स्थितेः विषये सर्वैः मन्त्रिभिः सह विचार-विमर्शः कृतः। तेन उक्तं यत् प्रधानमन्त्री एतस्मिन् विषये सामाजिक-माध्यमे ‘एक्स’ द्वारा राष्ट्राय आह्वानं कृतवान्।
प्रधानमन्त्रिणः आह्वानानुसारं प्रत्येकं मन्त्रालय: विभागश्च स्व-स्व-क्षेत्रेषु कर्तव्य-विशिष्ट-कार्याणां विषये चर्चां कृतवन्तः।
अश्विनी-वैष्णवेन उक्तं यत् प्रधानमन्त्री स्पष्टतया उक्तवान्— एतादृशीषु महतीषु आपत्सु “समग्र-राष्ट्रभावेन” कार्यं करणीयम् इति।
सः अवदत् यत् सभायां लू-प्रभावे नागरिकेभ्यः सौविध्य-प्रदानाय तथा तेषां सुरक्षा-सुनिश्चयाय कर्तव्य-उपायानां विषये विचार-विमर्शः कृतः। विशेषतः स्वास्थ्य-मन्त्रालयः, जल-सम्पदा-क्षेत्रम् अन्ये च सम्बद्ध-क्षेत्रेषु सम्भाव्य-उपायाः चर्चा-विषये आगताः।
उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री नरेन्द्र-मोदी देशस्य विविध-प्रदेशेषु प्रवर्तमानायां भीषण-उष्णतायां नागरिकान् सावधानतां पालनाय च आग्रहं कृतवान्। सः जनान् प्रति पर्याप्त-जलपानं कर्तुं, बहिर्गमनकाले जलेन सह नेतुं, तथा आवश्यक-जनान् जल-प्रदानं कर्तुं च आह्वानं कृतवान्।
Hindusthan Samachar / Divya Ranjan