भारते इबोलायाःप्रकरणं न- स्वास्थ्य मंत्रालयः
नव दिल्ली, 27 मईमासः (हि.स.)। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रालयेन बुधवासरे उक्तं यत् देशे इबोला-विषाणुरोगस्य एकमपि प्रकरणं न दृष्टम् अस्ति तथा शासनं अस्य विषये निरन्तरं निरीक्षणं कुर्वति। मन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् आफ्रिकाखण्ड
स्वास्थ्य मंत्रालय का लोगो


नव दिल्ली, 27 मईमासः (हि.स.)।

केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रालयेन बुधवासरे उक्तं यत् देशे इबोला-विषाणुरोगस्य एकमपि प्रकरणं न दृष्टम् अस्ति तथा शासनं अस्य विषये निरन्तरं निरीक्षणं कुर्वति।

मन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् आफ्रिकाखण्डस्य केषुचित् भागेषु इबोला-विषाणुरोगस्य हालियप्रकोपं दृष्ट्वा भारतशासनं परिस्थितेः निरन्तरं निरीक्षणं करोति।

सावधानतारूपेण युगाण्डादेशात् अलीकाले प्रत्यागतः एकः व्यक्तिः शरीरे लघुवेदनायाः शिकायतां कृत्वा बेङ्गलूरुनगरस्य राज्यसञ्चालिते एपिडेमिक् डिजीजचिकित्सालये निरीक्षणाय परीक्षणाय च आइसोलेशनमध्ये स्थापितः आसीत्।

स्वास्थ्याधिकारिणां अनुसारं तस्मै व्यक्तये शरीरवेदनां विना अन्ये गम्भीरलक्षणानि न आसन्।

सन्दिग्धरोगिणः सैम्पल् परीक्षणार्थं नेशनल् इन्स्टिट्यूट् ऑफ् वायरोलॉजी इत्यत्र प्रेषितम् आसीत्। परीक्षणप्रतिवेदने इबोला-विषाणुरोगस्य पुष्टि न अभवत् तथा प्रतिवेदनं नेगेटिव् आगतम्।

स्वास्थ्यपरिवारकल्याणमन्त्रालयेन सम्बन्धितराज्यशासनेन सह समन्वयं कृत्वा निरीक्षणं वर्धितम् अस्ति तथा विश्वस्वास्थ्यसङ्गठनस्य दिशानिर्देशानुसारं सर्वाणि आवश्यकानि सार्वजनिकस्वास्थ्यनवचाराः पाल्यन्ते।

मन्त्रालयेन पुनरुक्तं यत् भारते इबोला-विषाणुरोगस्य किमपि प्रकरणं न दृश्यते।

शासनेन उक्तं यत् देशव्यापी निर्दिष्टप्रवेशबिन्दुषु तथा सार्वजनिकस्वास्थ्यव्यवस्थायां स्क्रीनिङ्ग् तथा निरीक्षणं निरन्तरं प्रवर्तते। नागरिकेभ्यः अपील् कृता यत् ते न भयभीताः भवन्तु, अफवाहाभ्यः दूरं तिष्ठन्तु तथा केवलं शासकीय-आधिकारिकस्रोताभ्यः प्राप्तसूचनासु एव विश्वासं कुर्वन्तु।

---------------

Hindusthan Samachar / Dheeraj Maithani