Enter your Email Address to subscribe to our newsletters


रायपुरम्, २७ मे-मासः (हि.स.)। छत्तीसगढ़-राज्यस्य बलौदाबाजार-वनमण्डलान्तर्गत-देवपुर-अरण्ये दुर्लभ: “विशाल-भारतीय-चिक्रोड:” दृष्ट:, येन वन-विभागे, प्रकृति-प्रेमिषु, वन्यजीव-विशेषज्ञेषु च उत्साहस्य वातावरणम् उत्पन्नम्। वनमन्त्री केदारकश्यपः एतत् प्रदेशस्य गौरवस्य विषयः इति वर्णयन् उक्तवान् यत् राज्यस्य अरण्यानि पर्यावरणीय-सन्तुलनस्य वन्यजीव-संरक्षणस्य च दृढाधाराणि सन्ति।
१६ मे-दिनात् २२ मे-दिन-पर्यन्तं आयोजिते देवपुर-समर-कैम्प-२०२६ इत्यस्मिन् पक्षि-अवलोकन-भ्रमणस्य समये अस्य दुर्लभ-वन्यजीवस्य उपस्थितिः अभिलेखिता। एतत् प्रदेशस्य समृद्ध-जैव-विविधतायाः स्वस्थ-वन-पारिस्थितिक्याः च महत्त्वपूर्णः संकेतः इति मन्यते।
वन-विभागस्य अनुसारम्, कस्यापि वन-प्रदेशस्य मध्ये अस्याः प्रजात्याः उपस्थितिः तत्र विद्यमानस्य घन-वृक्षावरणस्य, सन्तुलित-पर्यावरणस्य, समृद्ध-जैव-विविधतायाः च प्रमाणं मन्यते।
वनमन्त्री केदारकश्यपः बुधवासरे उक्तवान् यत् छत्तीसगढ़स्य अरण्यानि केवलं प्राकृतिक-सम्पदानि न, अपितु पर्यावरणीय-सन्तुलनस्य वन्यजीव-संरक्षणस्य च सुदृढ-आधाराणि सन्ति। तेन उक्तं यत् राज्य-शासनं वन-संरक्षणं, जैव-विविधता-संवर्धनं, प्रकृति-शिक्षां, ईको-पर्यटनस्य प्रोत्साहनं च प्रति निरन्तरं गम्भीरतया कार्यं करोति। शासनस्य उद्देश्यं जनान् अरण्येन प्रकृत्या च सह सम्बद्धान् कर्तुम् अस्ति, येन अग्रिम-वंशेषु पर्यावरण-संरक्षणं प्रति जागरूकताम् उत्तरदायित्वं च विकसितुं शक्येत। देवपुर-समर-कैम्प-इत्येतादृशानि आयोजनानि अस्यां दिशि महत्त्वपूर्णां भूमिकां निर्वहन्ति।
अस्य दुर्लभ-चिक्रोडस्य परिचयः बलौदाविपणस्य प्रकृति-पक्षि-प्रेमिणा तथा साइबर-समस्या-विशेषज्ञेन हेमन्तवर्मणा कृतः। तस्य अनुसारम् एषा प्रजातिः सामान्य-चिक्रोडेभ्य: आकारेण अत्यन्तं बृहती भवति। अस्य शरीरे प्रगाढ-रक्तवर्णस्य, कृष्णवर्णस्य, धूसरवर्णस्य, क्रीम-वर्णस्य च आकर्षकं मिश्रणं दृश्यते, येन अस्य पृथक् परिचय: भवति।
वैज्ञानिक-रूपेण “रटूफा-इण्डिका” इति नाम्ना ज्ञायमाना एषा प्रजातिः भारतस्य बृहत्तमासु वृक्षवासि-चिक्रोडेषु अन्यतमा अस्ति। अस्य दीर्घता पुच्छेन सह प्रायः त्रि-पाद-परिमिता भवितुं शक्नोति। एषा पूर्णतया वृक्षेषु वसति तथा एकस्मात् वृक्षात् अपरं वृक्षं प्रति प्रायः २०-पाद-दीर्घां लङ्घन-क्षमतां धारयति।
विशेषज्ञानां मते कस्मिंश्चित् वन-प्रदेशे अस्याः प्रजात्याः उपस्थितिः तत्र स्वस्थ-अरण्यस्य समृद्ध-पारिस्थितिकी-तन्त्रस्य च संकेतः मन्यते। किन्तु अरण्य-कर्तनस्य प्राकृतिक-वासस्थानानां विखण्डनस्य च कारणात् अस्या: अस्तित्वे संकटं निरन्तरं वर्धते। भारते एषा प्रजातिः वन्यजीव-संरक्षण-अधिनियम-१९७२ इत्यस्य अनुसूची-द्वितीयान्तर्गतं संरक्षिता अस्ति।
बलौदाविपण-वनमण्डलाधिकारी धम्मशीलगणवीरः उक्तवान् यत् बारनवापारा-अभयारण्यं समीपवर्ती-वन-प्रदेशाश्च जैव-विविधतायाः दृष्ट्या अत्यन्तं समृद्धाः सन्ति। तेन उक्तं यत् एतादृशानि वन्यजीव-अवलोकनानि जनान् अरण्यानां महत्त्वं ज्ञातुं संरक्षणं प्रति जागरूकान् भवितुं च अवसरं ददति। देवपुर-समर-शिविरस्य माध्यमेन बालकान्, यूनः, प्रकृति-प्रेमिणश्च वनैः वन्यजीवैश्च सह सम्बद्धान् कर्तुं प्रयासः क्रियते, येन भविष्ये संरक्षणंं प्रति जनसहभागिता अधिका सुदृढा च भविष्यति।
हिन्दुस्थान समाचार / Divya Ranjan