मुख्यमन्त्री उमरः ईद्-उल-अधा-पर्वणः शुभकामनाः प्रदत्तवान्, शान्तेः समृद्धेः च कृते प्रार्थनाम् अकरोत्
श्रीनगरम्, २७ मे-मासः (हि.स.)। जम्मू-कश्मीर-राज्यस्य मुख्यमन्त्री उमर-अब्दुल्ला बुधवासरे ईद्-उल्-अधा-पर्वणः शुभ-अवसरे जनान् हार्दिक-शुभकामनाः प्रदत्तवान्। तेन उक्तं यत् एतत् पर्व त्यागस्य, करुणायाः, विश्वासस्य च प्रतीकम् अस्ति। तेन सर्वेषां कृते श
मुख्यमन्त्री उमरः ईद्-उल-अधा-पर्वणः शुभकामनाः प्रदत्तवान्, शान्तेः समृद्धेः च कृते प्रार्थनाम् अकरोत्


श्रीनगरम्, २७ मे-मासः (हि.स.)। जम्मू-कश्मीर-राज्यस्य मुख्यमन्त्री उमर-अब्दुल्ला बुधवासरे ईद्-उल्-अधा-पर्वणः शुभ-अवसरे जनान् हार्दिक-शुभकामनाः प्रदत्तवान्।

तेन उक्तं यत् एतत् पर्व त्यागस्य, करुणायाः, विश्वासस्य च प्रतीकम् अस्ति। तेन सर्वेषां कृते शान्तेः, समृद्धेः, सुखस्य, कल्याणस्य च प्रार्थना कृता। एक्स-माध्यमे सहभागकृतस्य स्वसन्देशस्य माध्यमेन मुख्यमन्त्री आशां प्रकटितवान् यत् ईद्-उल-अधा-पर्व जनानां मध्ये भ्रातृत्वस्य, सौहार्दस्य, पारस्परिक-सम्मानस्य च बन्धनं सुदृढं करिष्यति।

Hindusthan Samachar / Divya Ranjan