Enter your Email Address to subscribe to our newsletters


लखनऊ, 27 मईमासः (हि.स.)।राजधानीलखनऊस्थिते उत्तरप्रदेशराजकीयअभिलेखागारे ज्ञानभारतम् मिशन इत्यस्य अन्तर्गते बुधवासरे आयोजितायां ‘पाण्डुलिप्यभिरुचिकार्यशालायां’ भारतीयज्ञानपरम्परा, इतिहासः तथा प्राचीननिक्षेपाणां संरक्षणम् इत्यादिविषयेषु विशेषमन्थनम् अभवत्। अस्मिन् अवसरे ‘ज्ञानभारतम् निर्देशिका’ तथा ‘कोलोनियल् लखनऊ’ इति नाम्नी द्वे महत्त्वपूर्णे पुस्तके विमोचिते। कार्यशालायां प्रदेशस्य विविधजनपदेभ्यः आगताः विद्यार्थीजनाः, शोधार्थिनः तथा विशेषज्ञाः सहभागी अभवन् तथा प्राचीनपाण्डुलिपीनाम् अवलोकनं कृत्वा भारतीयज्ञानपरम्परायाः समृद्धविरासतां समीपतः अवगन्तुं प्रयत्नं कृतवन्तः।
कार्यक्रमस्य मुख्यातिथिः अपरमुख्यसचिवः, पर्यटन-संस्कृति-धर्मार्थकार्यविभागस्य अमृतअभिजातः उक्तवान् यत् ज्ञानभारतम् मिशनस्य माध्यमेन देशः प्रायः एककोटि पाण्डुलिपीनां सङ्ग्रहणं संरक्षणं च कर्तुं दिशि अग्रे गच्छति। तेन उक्तं यत् अद्य दृढं मिशनं सज्जीकृतम् अस्ति, यस्य माध्यमेन सामान्यजनाः अपि स्वकीयाः पारिवारिकाः निजीपाण्डुलिपयः च सुरक्षितरूपेण स्थापयितुं शक्नुवन्ति। तेन शोधार्थिभ्यः इतिहासस्य महत्त्वं ज्ञातुं तथा भारतीयज्ञानपरम्पराम् अग्रे नेतुं आह्वानं कृतम्। सहैव विश्वासः व्यक्तीकृतः यत् पाण्डुलिपिसंरक्षणक्षेत्रे उत्तरप्रदेशः सम्पूर्णदेशे प्रथमस्थानं प्राप्तुं समर्थः भविष्यति।
विशिष्टातिथिः बाबासाहबभीमरावअम्बेडकरविश्वविद्यालयस्य, लखनऊनगरस्थितस्य आधुनिकभारतीयइतिहासविभागस्य सहप्राध्यापकः डॉ. सुशीलकुमारपाण्डेयः “भारतीयज्ञानपरम्परायां पाण्डुलिपीनां महत्त्वम्” इति विषये व्याख्यानं दत्तवान्। तेन उक्तं यत् वर्तमानकाले बहूनां समस्याणां समाधानं भारतीयज्ञानपरम्परायामेव निहितम् अस्ति तथा पाण्डुलिपयः अस्माकं बौद्धिकविरासतायाः सर्वाधिकमहत्त्वपूर्णनिक्षेपाः सन्ति।
१७९४ तमे वर्षे लिखितस्य रामचरितमानसस्य तथा दुर्लभगीतापाण्डुलिपेः विशेषाकर्षणम् अभवत्। कार्यशालायां प्रदेशस्य सर्वेभ्यः जनपदेभ्यः आगताः प्रायः २५० अधिकाः छात्र-छात्र्यः सहभागी अभवन् तथा दुर्लभपाण्डुलिपीनाम् अवलोकनं कृतवन्तः। अत्र प्रदर्शिता श्रीमद्भगवद्गीतायाः दुर्लभा संस्कृतपाण्डुलिपिः विशेषाकर्षणस्य केन्द्रम् आसीत्। वर्ष १९६७ तमे निर्मितायाम् अस्याम् पाण्डुलिपौ भगवान् श्रीकृष्णसम्बद्धानि सप्त सुन्दरचित्राणि सह भगवद्गीतायाः समस्ताः ७०० श्लोकाः सङ्कलिताः सन्ति। अपरतः रामचरितमानसस्य प्राचीनहिन्दीपाण्डुलिपिः अपि सहभागिनां विशेषाकर्षणम् अभवत्। वर्ष १७९४ तमे निर्मितायाम् अस्याम् दुर्लभपाण्डुलिपौ भगवान् श्रीरामस्य जीवनप्रसङ्गसम्बद्धानि प्रायः ४०० मनोहरचित्राणि निर्मितानि सन्ति। प्रत्येकस्मिन् पृष्ठे दोहा तथा चौपाई सहितं चित्राणां विस्तृतविवरणम् अपि अंकितम् अस्ति, यत् अस्याः पाण्डुलिपेः विशेषतां वर्धयति।
सहायकनिदेशकः (संरक्षणम्) विजयकुमारश्रीवास्तवः पाण्डुलिपिसर्वेक्षणकाले ध्यानयोग्यानां महत्त्वपूर्णतथ्यानां विषये सूचनां प्रदत्तवान्। संस्कृतिविभागस्य विशेषसचिवः संजयकुमारसिंहः सहभागिभ्यः प्रमाणपत्राणि वितरितवान्।
Hindusthan Samachar / Dheeraj Maithani