Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, २६ मे-मासः (हि.स.)। छत्तीसगढ-राज्यस्य मुख्यसचिवः विकासशीलः राज्यस्य सहकारी-समितीनां माध्यमेन कृषकेभ्यः खाद्यान्नं, बीजानि, औषधानि, बैंकिंग-सुविधाः, रोजगार-अवसराः च सुगमतया प्रदातुं निर्देशान् दत्तवान्। तेन कृषकाणां सशक्तीकरणाय सहकारी-समितीनां सुदृढीकरणे विशेषं बलं दत्तम्।
मुख्यसचिवः अधिकारिणः निर्देशितवान् यत् प्रदेशस्य प्रत्येकं ग्राम-पञ्चायते सहकारी-समितेः सञ्चालनं सुनिश्चितं क्रियताम्। सहैव प्राथमिक-कृषि-साख-समितयः दुग्ध-उत्पादनम्, मत्स्य-पालनम्, लघु-वनोपज-कार्यै: च सह सम्बद्धाः क्रियन्ताम् इति अपि उक्तवान्।
मन्त्रालये आयोजितायां राज्य-सहकारी-विकास-समितेः उच्च-स्तरीय-सभायां समितीनां गठनम्, उद्देश्यानि, भावि-कार्ययोजनाया: च विषये विस्तरेण चर्चा अभवत्। पैक्स-गोदाम-निर्माणस्य प्रगतिः समीक्षिता तथा ग्रामीण-क्षेत्रेषु जन-औषधि-केन्द्राणां सार्वजनिक-सेवा-केन्द्राणां च विस्ताराय बलं दत्तम्।
सभायां राज्यस्य सर्वाः पैक्स-समितयः राष्ट्रीय-बीज-सहकारी-समित्या, राष्ट्रीय-सहकारी-निर्यात-समित्या, राष्ट्रीय-जैविक-सहकारी-समित्या च सह सम्बद्धाः क्रियन्ताम् इति रणनीतिः चर्चिता। समर्थन-मूल्येन मक्का-दलहन-उपार्जनाय कृषकाणां पैक्स-समितीनां च पञ्जीकरणं एनसीसीएफ तथा एन ए एफ ई डी इत्येतयोः आधिकारिक-पटलयोः करणीयम् इति निर्देशाः दत्ताः।
ग्रामीण-क्षेत्रेषु बैंकिंग-व्यवस्थायाः सुदृढीकरणाय पैक्स, दुग्ध-सहकारी-समितयः, मत्स्य-सहकारी-समितयः च मध्ये माइक्रो-एटीएम-स्थापनस्य रूपे-कार्ड इति तथा किसान-क्रेडिट-कार्ड-वितरणस्य च समीक्षा कृता।
मुख्यसचिवः सहकारी-शर्करा-निर्माणीषु मल्टीफील्ड-इथेनॉल-संयन्त्र-निर्माणस्य प्रक्रियां शीघ्रं कर्तुं निर्देशान् दत्तवान्। सहैव शहरीय-सहकारी-धनागाराणाम् अम्ब्रेला-संगठनेन सह संयोजनम्, जनपद-सहकारी-धनागाराणाम् इंटरनेट-बैंकिंग-सेवा, पैक्स-संगणकीकरणम्, पीएम-किसान-समृद्धि-केन्द्र-स्थापनम् इत्यादीनां कार्याणां प्रगतेः अपि मूल्याङ्कनं कृतम्।
अस्यां सभायां वन-जलवायु-परिवर्तन-विभागस्य अपर-मुख्यसचिवः मनोज-पिंगुआ, वित्त-विभागस्य सचिवः डॉ.रोहित-यादवः, कृषि-किसान-कल्याण-विभागस्य सचिवः सिद्धार्थ-कोमल-परदेशी, सहकारिता-विभागस्य सचिवः डॉ. सी.आर. प्रसन्ना, आयुक्तः सहकारिता महादेव-कावरे च प्रमुखरूपेण उपस्थिताः आसन्।
/ अंशु गुप्ता