Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, २७ मे-मासः (हि.स.)। हिमाचलप्रदेशे प्रथम-चरणस्य १२९३ पञ्चायत-निर्वाचन-परिणामेषु अस्मिन् वर्षे अनेके रोचका: परिणामा: दृष्टा:। सिरमौर-जनपदस्य एका पञ्चायत् सम्पूर्ण-प्रदेशस्य ध्यानम् आकर्षितवती। संगड़ाह-विकास-खण्डस्य बाऊनल-काकोग-ग्राम-पञ्चायते जनैः एकस्यैव परिवारस्य सहोदर-भ्रातरौ पञ्चायतस्य द्वे प्रमुखे उत्तरदायित्वे समर्पिते। अत्र अनिता-शर्मा प्रधाना निर्वाचिता, तस्याः सहोदरः रामचरणः उपप्रधानः निर्वाचितः।
विशेषः विषयः अयम् अपि अस्ति यत् उभौ विवाहितौ स्तः तथा भगिन्याः विवाहः अपि अस्यामेव पञ्चायतायाम् अभवत्। एकस्यां पञ्चायतायां सहोदर-भ्राता-भगिन्योः एकत्र प्रधान-उपप्रधान-पदयोः निर्वाचनम् अधुना चर्चायाः विषयः जातः। निर्वाचन-परिणामानां घोषणानन्तरं पञ्चायते उत्साहस्य वातावरणम् आसीत्। समर्थकैः मिष्टान्न-वितरणं कृतम्, मृदंग-वादनैः सह विजय-उत्सवः अपि आचरितः। ग्रामवासिनः एतत् पञ्चायत-राजनीत्यां नूतन-आरम्भरूपेण पश्यन्ति। जनाः वदन्ति यत् अस्मिन् वारे पञ्चायते जातीय-पारम्परिक-समीकरणेभ्यः उपरि उत्थाय शिक्षित-युवा-नेतृत्वे विश्वासः प्रकटितः।
प्रधान-पदे विजयं प्राप्तवती अनिता-शर्मा राजनीतिशास्त्रे एमए-उपाधिधारिणी अस्ति। सा दीर्घकालात् सामाजिक-कार्येषु सक्रियतया संलग्ना आसीत् तथा पञ्चायतस्य विभिन्न-विषयेषु जनानां मध्ये कार्यं कुर्वती आसीत्। निर्वाचनेषु तस्यै कुलम् ३८५ मतानि प्राप्तानि। तया स्व-प्रतिद्वन्द्वी उर्मिला ६२ मतान्तरेण पराजिता। अनिता-शर्मा-इत्यस्याः विजयः पञ्चायते महिलानां वर्धमान-सहभागिता शिक्षित-नेतृत्वस्य स्वीकार्यता च इति रूपेण अपि दृश्यते।
तस्याः भ्राता रामचरणः उपप्रधान-पदस्य निर्वाचनेषु महद्विजयम् अलभत। तेन द्वादश-श्रेणी-शिक्षया सह होटल-प्रबन्धनस्य अध्ययनम् अपि कृतम्। निर्वाचनेषु तस्मै ५६२ मतानि प्राप्तानि। तेन स्वस्य निकटतम-प्रतिद्वन्द्वी नवरंगः ४३१ मतान्तरेण पराजितः। नवरंगाय केवलं १३१ मतानि प्राप्तानि।
पञ्चायतस्य जनाः वदन्ति यत् रामचरणः यूनां मध्ये अत्यन्तं लोकप्रियः आसीत् तथा निर्वाचन-प्रचारस्य समये तेन रोजगारः, मार्ग-व्यवस्था, पेयजल-समस्या च प्रमुखतया उत्थापिताः।
ग्रामवासिनः आशां कुर्वन्ति यत् भ्राता-भगिन्योः एतत् युगलं पञ्चायतस्य विकासाय नूतनां दिशां प्रदास्यति। जनानां मतम् अस्ति यत् नूतना पञ्चायत्-शिक्षा, स्वास्थ्यं, मार्ग-व्यवस्था, पेयजलम्, रोजगारः इत्यादिषु मूलभूत-विषयेषु शीघ्रतया कार्यं करिष्यति। पञ्चायतस्य वृद्धाः अपि मन्यन्ते यत् शिक्षित-नेतृत्वेन ग्रामेषु विकास-योजनानां उत्तम-रूपेण क्रियान्वयनं शक्यं भविष्यति।
उल्लेखनीयम् अस्ति यत् हिमाचलप्रदेशे पञ्चायत-निर्वाचनस्य प्रथम-चरणे १२९३ पञ्चायतासु मङ्गलवासरे मतदानम् अभवत्। मतदानानन्तरं रात्रेः विलम्बपर्यन्तं मतगणना प्रचलिता तथा परिणामाः घोषिताः। प्रथम-चरणस्य निर्वाचनेषु अनेकेषु स्थलेषु रोचक-स्पर्धाः दृष्टाः। द्वितीय-चरणे २८ मे-दिने १२७४ पञ्चायतेषु तथा तृतीय-चरणे ३० मे-दिने ११८७ पञ्चायतेषु मतदानं भविष्यति।
Hindusthan Samachar / Divya Ranjan