Enter your Email Address to subscribe to our newsletters

रायपुरम्, २७ मे-मासः (हि.स.)। छत्तीसगढ़-शासनेन आईएफएस-अधिकारी अरूणपाण्डेयः प्रधान-मुख्य-वनसंरक्षकः वनबल-प्रमुखः च इति पदयोः नियुक्तः। अस्य सम्बन्धे मन्त्रालयात् अद्य बुधवासरे आदेशः निर्गतः। अरूणपाण्डेयः व्ही-श्रीनिवासन-रावस्य स्थाने कार्यभारं स्वीकरिष्यति।
उल्लेखनीयम् अस्ति यत् पीसीसीएफ-प्रमुखः व्ही-श्रीनिवास-रावः ३१ मे-दिने सेवानिवृत्तः भविष्यति। अतः नूतन-पीसीसीएफ-पदस्य नियुक्त्यर्थं डीपीसी-समितेः सभा अभवत्। अस्यां सभायाम् अरूणपाण्डेयस्य, अनिलसाहोः, कौशलेन्द्रकुमारस्य च नाम्नोः विषये चर्चा अभवत्। चर्चानन्तरम् अरूणपाण्डेयस्य नाम अनुमोदितम्। छत्तीसगढ़-शासनस्य वन-जलवायु-परिवर्तन-विभागेन रायपुरस्थित-मन्त्रालयात् अद्य एषः आदेशः निर्गतः।
हिन्दुस्थान समाचार / Divya Ranjan