कोलकातानगरे अन्ताराष्ट्रिय-योग-दिवसस्य मुख्य-आयोजनं भविष्यति
नवदेहली, २७ मे-मासः (हि.स.)। अन्ताराष्ट्रिय-योग-दिवस-२०२६ इत्यस्य मुख्य-राष्ट्रीय-कार्यक्रमः अस्मिन् वर्षे २१ जून-दिने कोलकातानगरे आयोजितः भविष्यति। केन्द्रीय-आयुष-राज्यमन्त्री (स्वतन्त्र-प्रभारः) प्रतापराव-जाधवः बुधवासरे एतस्य घोषणां कृत्वा उक्तवा
पत्रकारों से बातचीत करते हुए आयुष मंत्री प्रतापराव जाधव


नवदेहली, २७ मे-मासः (हि.स.)। अन्ताराष्ट्रिय-योग-दिवस-२०२६ इत्यस्य मुख्य-राष्ट्रीय-कार्यक्रमः अस्मिन् वर्षे २१ जून-दिने कोलकातानगरे आयोजितः भविष्यति। केन्द्रीय-आयुष-राज्यमन्त्री (स्वतन्त्र-प्रभारः) प्रतापराव-जाधवः बुधवासरे एतस्य घोषणां कृत्वा उक्तवान् यत् अस्मिन् वर्षे योग-दिवसस्य विषयः “स्वस्थ-वृद्धावस्थायै योगः” इति निर्धारितः अस्ति।

प्रतापराव-जाधवः पत्रकारैः सह वार्तालापे उक्तवान् यत् योगः भारतस्य प्राचीना परम्परा समग्र-स्वास्थ्यस्य च आधारः अस्ति। अस्य वर्षस्य विषयः वर्धमाने वयसि शारीरिक-मानसिक-स्वास्थ्यस्य संरक्षणे योगस्य महत्त्वं प्रकाशयति। तेन उक्तं यत् खजुराहो-नगरं स्वस्य सांस्कृतिक-आध्यात्मिक-परम्परायाः कारणात् योग-वेलनेस-क्षेत्रस्य वैश्विक-केन्द्ररूपेण विकसितुं क्षमतां धारयति।

मन्त्रिणा उक्तं यत् “योग-३६५” इत्यभियानस्म अन्तर्गतं सञ्चालिते १००-दिवसीय-निःशुल्क-योग-प्रशिक्षण-कार्यक्रमे अद्यावधि द्वि-लक्षाधिकाः जनाः सहभागं कृत्वा “योग-मित्र” प्रमाणपत्रं प्राप्तवन्तः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे योगः अद्य वैश्विक-जन-आन्दोलनरूपेण विकसितः अस्ति तथा च प्रायः १९०-देशेषु अस्य अभ्यासः क्रियते।

Hindusthan Samachar / Divya Ranjan