Enter your Email Address to subscribe to our newsletters

कोलकाता, 27 मईमासः (हि.स.)।
कोलकातानगरनिगमेन अभिषेकबनर्जीसम्बद्धायाः एकस्याः कम्पन्याः ‘लीप्सएण्डबाउण्ड्स’ इत्यस्य नाम्ना पञ्जीकृतायाः इमारत्याः ‘एलीवेशनकापी’ इति प्रपत्रं याचितम् अस्ति। दक्षिणकोलकातास्थितस्य हरिशमुखर्जीराजमार्गस्य अस्याः सम्पत्तेः विषये पूर्वं निर्गतस्य सूचनापत्रस्य उत्तरसहितं एषः दस्तावेजः समर्पयितुं निर्देशः दत्तः।
१८८ए, हरिशमुखर्जीराजमार्गे स्थितं ‘शान्तिनिकेतन’ नामकं भवनं लीप्सएण्डबाउण्ड्सप्राइवेटलिमिटेड इत्यस्य नाम्ना पञ्जीकृतम् अस्ति। तथापि एतत् भवनम् अभिषेकबनर्जेः निवासरूपेण उपयुज्यते इति सूचना प्राप्ता अस्ति। एतत् भवनं ममताबनर्जीमहोदयायाः निवासस्य समीपे स्थितम् अस्ति।
नगरनिगमस्य अधिकारिणः स्पष्टतया उक्तवन्तः यत् केवलं सामान्यउत्तरं पर्याप्तं न भविष्यति। सूचनापत्रस्य उत्तरसहितं भवनस्य ‘एलीवेशनकापी’ अपि संलग्ना कर्तव्या, येन तथ्यानां सत्यापनं कर्तुं शक्येत। सहैव भवनस्य मूलसंरचनायां कृतपरिवर्तनानि अतिरिक्तनिर्माणं च तस्मिन् दस्तावेजे आलेखरूपेण दर्शनीयानि।
‘एलीवेशनकापी’ सामान्यतया भवननिर्माणे प्रयुज्यमानं वास्तुचित्रं भवति। अस्मिन् इमारत्याः बाह्यभागः, भित्तयः, वातायनानि, द्वाराणि, छदिः अन्ये च संरचनात्मकविवरणाः द्विमितीयस्वरूपेण प्रदर्श्यन्ते।
सूत्राणां अनुसारं केएमसी इत्यनेन अभिषेकबनर्जीस्य स्वामित्वयुक्तासु सहस्वामित्वयुक्तासु वा कुलम् १७ सम्पत्तिषु सूचनापत्राणि प्रेषितानि। ‘शान्तिनिकेतनस्य सदृशम् अन्यासां सम्पत्तीनाम् अपि प्रकरणेषु उत्तरसहितं एलीवेशनकापी समर्पणीया भविष्यति।
सूचनानुसारं भवननिर्माणस्य रूपरेखानुमोदनस्य समये निर्माणस्थलस्य मानचित्रं अथवा रेखाचित्रं आवेदनपत्रेण सह समर्पयितुं अनिवार्यम् अस्ति। एषः प्रावधानः कोलकातानगरनिगमभवननियमाः २००९ इत्यस्य अन्तर्गतं प्रवर्तते।
उल्लेखनीयं यत् अभिषेकबनर्जेः १७ सम्पत्तयः सन्देहस्य परिधौ सन्ति। नगरनिगमः निरन्तरं तेषां दस्तावेजानां परीक्षणे निरतः अस्ति। तस्मै निरन्तरं त्रयः सूचनापत्राणि निर्गतानि सन्ति।
Hindusthan Samachar / Dheeraj Maithani