Enter your Email Address to subscribe to our newsletters

- सप्त दिवसीय समागमे देश-विदेशयोः विशेषज्ञाः, वैज्ञानिकाः कलाकाराश्च भविष्यन्ति सम्मिलिताः
भोपालम्, 27 मईमासः (हि.स.)।
मध्यप्रदेशस्य राजधानी भोपालनगरे भारतभवने अद्य बुधवासरे ‘जलगङ्गासंवर्धनअभियानस्य’ अन्तर्गता राष्ट्रियसङ्गोष्ठी तथा सांस्कृतिकोत्सवः “सदानीरासमागमः” आयोज्यते। वीरभारतन्यासेन जलसंरक्षणं, भारतीयसंस्कृतिः, पञ्चमहाभूतानि तथा सततविकासः इत्येतेषु विषयेषु केन्द्रितः अयं सप्तदिवसीयः समागमः ०२ जून पर्यन्तं प्रवर्तिष्यते, यस्मिन् देशविदेशेभ्यः विद्वांसः, पर्यावरणविशेषज्ञाः, वैज्ञानिकाः, नीतिनिर्मातारः तथा कलाकाराः सहभागितां करिष्यन्ति।
वीरभारतन्यासस्य न्यासिसचिवः श्रीरामतिवारी अवदत् यत् मुख्यमन्त्री डॉ. मोहनयादवः अद्य अस्य सप्तदिवसीयसमागमस्य शुभारम्भं करिष्यति। उद्घाटनसमारोहे क्रीडायुवकल्याणमन्त्री विश्वाससारङ्गः, पिछडावर्गअल्पसंख्यककल्याणराज्यमन्त्री (स्वतन्त्रप्रभारः) कृष्णागौरः तथा संस्कृतिपर्यटनराज्यमन्त्री (स्वतन्त्रप्रभारः) धर्मेन्द्रभावसिंहलोधी उपस्थिताः भविष्यन्ति।
तिवारी अवदत् यत् अस्मिन् सप्तदिवसीयसमागमे भारतीयदर्शनस्य पञ्चमहाभूतानि — जलम्, पृथ्वी, वायुः, आकाशः तथा अग्निः — एतेषाम् आधारेण विविधाः वैचारिकसत्राणि आयोज्यन्ते। एतेषु सत्रेषु भूगर्भीयजलस्रोताः, नवीकरणीयऊर्जा, पर्यावरणम् तथा पारम्परिकज्ञानम् इत्यादिषु विषयेषु देशविदेशीयविशेषज्ञाः गम्भीरमन्थनं करिष्यन्ति। अस्मिन् राष्ट्रियविमर्शे भारतीयअन्तरिक्षअनुसन्धानसङ्गठनम् (इसरो), काशीहिन्दूविश्वविद्यालयः (बीएचयू), आईआईएम् बोधगया इत्यादीनां प्रतिष्ठितसंस्थानानां प्रतिनिधयः तथा विविधकॉपोरेट्गृहाणां सीएसआर् प्रमुखाः अपि सहभागित्वा स्वविचारान् साझीकरिष्यन्ति।
तेन उक्तं यत् समागमे वैचारिकमन्थनस्य सह प्रतिदिनं सायंकाले सांस्कृतिकरचनात्मककार्यक्रमाणाम् आयोजनं भविष्यति, यस्मिन् नृत्यनाटिकाः, लोकगायनम् तथा रङ्गमञ्चीयप्रस्तुतयः समाविष्टाः सन्ति। अस्मिन् अवधौ भारतीयनौसेनाबैण्डस्य सिम्फनी, ‘गोवर्धनलीला’ तथा ‘गङ्गायात्रा’ इत्येतयोः प्रस्तुत्यौ मुख्याकर्षणे भविष्यतः। तदतिरिक्तं ‘जलं, जङ्गलं, जीवनम्’ इति विषये केन्द्रितायाः राष्ट्रियजनजातीयचित्रांकनकार्यशालायाः तथा पारम्परिकचित्रशैलीषु जलकार्यशालायाः आयोजनम् अपि क्रियते, यस्मिन् देशस्य प्रसिद्धकलाकाराः सहभागितां करिष्यन्ति।
आयोजनस्थले मध्यप्रदेशविज्ञानप्रौद्योगिकीपरिषदः, बरकतुल्लाविश्वविद्यालयस्य तथा क्षेत्रीयप्राकृतिकविज्ञानसंग्रहालयस्य सहयोगेन जलचरजीवनम्, मध्यप्रदेशस्य जलगङ्गासंवर्धनअभियानम्, लघुचित्रेषु जलम् तथा भूगर्भीयजलस्रोताः इत्येतेषु विषयेषु आधारिताः चत्वारः विशेषप्रदर्शन्यः अपि स्थाप्यन्ते।
कार्यक्रमे जलसंस्कृतिविषयकानां महत्त्वपूर्णपुस्तकानाम् अपि लोकार्पणं भविष्यति, येषु वीरभारतन्यासेन तथा मैपकॉस्ट् संस्थया प्रकाशिताः ‘अन्तर्जलीयात्रा’, ‘पुरोवाक्’, प्रेमशङ्करशुक्लस्य ‘आत्मनः घाट्यां जलस्य सङ्गीतम्’ तथा राजेश्वरत्रिवेदेः ‘जलम्, संस्कृतिः तथा स्थापत्यम्’ इत्यादीनि समाविष्टानि सन्ति।
अस्य विशालकार्यक्रमस्य सफलतायै भारतभवनम्, मध्यप्रदेशजनजातीयसंग्रहालयः, जनसम्पर्कविभागः, माखनलालचतुर्वेदीराष्ट्रीयपत्रकारिताविश्वविद्यालयः, दत्तोपन्तठेंगड़ीशोधसंस्थानम्, यूनाइटेड्कॉन्शसनेस, सेज, एलएनसीटी, सैम्ग्लोबलयूनिवर्सिटी इत्यादीनि संस्थानि, तथा केन्द्रीयभूजलबोर्डः, नर्मदासमग्रः, भोपालजिलाप्रशासनम् इत्यादयः अनेकाः संस्थाः सहयोगिरूपेण सक्रिययोगदानं ददति।
---------------
Hindusthan Samachar / Dheeraj Maithani