Enter your Email Address to subscribe to our newsletters

भोपालम्, 27 मईमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यसचिवः अनुरागजैनः अद्य बुधवासरे वीडियोकॉन्फ्रेन्सिङ्ग् माध्यमेन शासनस्य उच्चप्राथमिकतायुक्तानां योजनानां समीक्षा करिष्यति। समीक्षोपवेशनं प्रातः ११ वादनात् आरभ्यते।
जनसम्पर्काधिकारी एस्. पी. शुक्लः अवदत् यत् उपवेशने कृषिः तथा सम्बद्धविभागाः, रोजगारः, उद्योगः तथा निवेशः, नगरीयविकासः, सुशासनम्, विधिव्यवस्था, पेयजलव्यवस्था, पशुपालनम् तथा जलगङ्गासंवर्धनअभियानस्य समीक्षा क्रियते।
उपवेशने गोधूमोपार्जनम्, आपदाप्रबन्धनस्य सज्जा, नशामुक्तिअभियानम्, अवैधउत्खननस्य विरुद्धं क्रियमाणा कार्यवाही, जलाशयेषु पर्यटकानां सुरक्षा, खादस्य तथा बीजस्य उपलब्धता वितरणं च, वनाधिकारपट्टसम्बद्धा कार्यवाही च समीक्षिता भविष्यति।
सर्वेभ्यः सम्भागीयाधिकारिभ्यः कमिश्नरकार्यालयस्य एनआईसीकेन्द्रात् तथा जिलाधिकारिभ्यः जिलाधिकारिकार्यालयस्य एनआईसीकेन्द्रात् उपवेशने सहभागितायै निर्देशाः प्रदत्ताः सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani