वर्धमाने वयसि निरोगिणः स्थातुं योगः अत्यन्तम् आवश्यकः - प्रतापराव-जाधवः
भोपालम्/छतरपुरम्, २७ मे-मासः (हि.स.)। केन्द्रीय-आयुष-राज्यमन्त्री प्रतापराव-जाधवः उक्तवान् यत् वर्धमाने वयसि निरोगिणः स्थातुं योगः अत्यन्तम् आवश्यकः अस्ति। नियमित-योगाभ्यासः अस्माकं शरीरं स्वस्थं सुदृढं च धारयति। मध्यप्रदेशस्य छतरपुर-जनपदस्य पर्यट
खजुराहो में अंतर्राष्ट्रीय योग दिवस कार्यक्रम को संबोधित करते हुए केंद्रीय मंत्री प्रताप राव जाधव


खजुराहो में अंतर्राष्ट्रीय योग दिवस पर विशेष 'योगा टी-शर्ट' लॉन्च


खजुराहो में अंतर्राष्ट्रीय योग दिवस का 25वां काउंटडाउन का भव्य आयोजन


खजुराहो में अंतर्राष्ट्रीय योग दिवस का 25वां काउंटडाउन का भव्य आयोजन


भोपालम्/छतरपुरम्, २७ मे-मासः (हि.स.)। केन्द्रीय-आयुष-राज्यमन्त्री प्रतापराव-जाधवः उक्तवान् यत् वर्धमाने वयसि निरोगिणः स्थातुं योगः अत्यन्तम् आवश्यकः अस्ति। नियमित-योगाभ्यासः अस्माकं शरीरं स्वस्थं सुदृढं च धारयति।

मध्यप्रदेशस्य छतरपुर-जनपदस्य पर्यटन-नगरे खजुराहो-स्थे पश्चिम-मन्दिर-समूह-परिसरे बुधवासरस्य प्रातःकाले अन्ताराष्ट्रिय-योग-दिवसस्य “२५-तम-काउंटडाउन-महोत्सवस्य” भव्य-आयोजनम् अभवत्। अस्मिन् विशेष-कार्यक्रमे प्रायः ८०० जनाः एकत्र सामूहिक-योगाभ्यासं कृतवन्तः, यः प्रातः ७:५० वादन-पर्यन्तं प्रचलितः। केन्द्रीय-आयुष-मन्त्रालयेन आयोजितस्य अस्य कार्यक्रमस्य शुभारम्भः केन्द्रीय-आयुष-राज्यमन्त्रिणा प्रतापराव-जाधवेन कृतः, यदा राज्यस्य मुख्यमन्त्री डॉ.मोहनयादवः आभासीय-माध्यमेन कार्यक्रमेण सह सम्बद्धः आसीत्।

कार्यक्रमे केन्द्रीय-राज्यमन्त्री प्रतापराव-जाधवः उक्तवान् यत् अस्मिन् वर्षे अन्ताराष्ट्रिय-योग-दिवसस्य विषयः “योगा फॉर हेल्दी एजिंग” अर्थात् “स्वस्थ-वृद्धावस्थायै योगः” इति निर्धारितः अस्ति।

कार्यक्रमस्य समये अन्ताराष्ट्रिय-योग-दिवस-२०२६ इत्यस्य विशेष-“योग-टी-शर्ट्” इत्यस्य भव्य-विमोचनम् अपि कृतम्। अस्य वर्षस्य विशेष-आकर्षक-टी-शर्ट्-रूपरेखायां योगस्य महत्त्वपूर्णः अङ्गः “सूर्यनमस्कारः” सुन्दर-जनजातीय-कलारूपेण प्रदर्शितः, येन समृद्धा जनजातीय-कला-संस्कृतिः वैश्विक-मञ्चे प्रकाशिता भवति।

केन्द्रीयमन्त्री जाधवः उक्तवान् यत् भारतीय-जनजातीय-सहकारी-विपणन-विकास-परिसंघस्य (ट्राइफेड) माध्यमेन सम्बद्धाः जनजातीय-भ्रातरः भगिन्यश्च पूर्ण-समर्पणेन उत्साहेन च एतासां टी-शर्ट-इत्यादीनां निर्माणं कुर्वन्ति, एतत् अस्माकं कृते गौरवस्य विषयः अस्ति। तेन उक्तं यत् एष: अभिनव: प्रयत्न: “वोकल-फॉर-लोकल” तथा “समग्र-स्वास्थ्य” इत्येतयोः अद्भुत-सङ्गमः अस्ति। एषः कार्यक्रमः योगस्य, स्वास्थ्यस्य, भारतस्य समृद्ध-सांस्कृतिक-विरासतायाः च जनं जनं प्रति प्रसारणस्य दिशि महत्त्वपूर्ण: प्रयत्न: अस्ति।

अस्मिन् अवसरे आयुष-मन्त्रालयस्य संयुक्त-सचिवा मोनालिसा-दासः चिन्ता-मुक्त-जीवनाय योगस्य स्वीकरणे बलं दत्तवती तथा अग्रिमे १४ जून-मासे आयोजिते “गिनीज-वर्ल्ड-रिकॉर्ड्” प्रयासे देशवासिनः उत्साहपूर्वकं सहभागं कर्तुम् आहूतवती।

क्षेत्रीय-सांसदः वी.डी.-शर्मा प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयासैः योगाय प्राप्तां वैश्विक-मान्यतां प्रति गौरवं प्रकटितवान्। सहैव तेन खजुराहो-नगराय ५०-शय्या-युक्तस्य “आयुष-वेलनेस-केन्द्रस्य” प्राप्तये केन्द्र-शासनस्य प्रति कृतज्ञता प्रकटिता। अस्मिन् अवसरे “योग-पार्क-पटलम्” इत्यस्य अपि उद्घाटनं कृतम्।

अस्यां सभायां प्रदेशस्य संस्कृतिमन्त्री धर्मेन्द्रलोधी, उच्च-शिक्षा-मन्त्री इन्दरसिंह-परमारः, विधायकः अरविन्दपटेरिया, विधायिका ललितायादवः इत्येतै: सह अनेके जन-प्रतिनिधयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan