खजुराहो-विश्वपर्यटननगरात् योगस्य सन्देशः गुंजितः, अन्ताराष्ट्रिय-योग-दिवसस्य २५-दिवसीय-गणना प्रारब्धा
छतरपुरम्, २७ मे-मासः (हि.स.)। अन्तरराष्ट्रीय-योग-दिवस-२०२६ इत्यस्य २५-दिवसीय-गणना आरब्धा। अस्य निमित्तं बुधवासरे मध्यप्रदेशस्य छतरपुर-जनपदे स्थितायां विश्वप्रसिद्धायां पर्यटन-सांस्कृतिक-नगरी-खजुराहौ भव्ये काउन्टडाउन-महोत्सवे योगस्य सन्देशः प्रसारित
खजुराहो में योग दिवस के काउंटडाउन महोत्सव का शुभारंभ


खजुराहो में योग दिवस के काउंटडाउन महोत्सव को संबोधित करते हुए केन्द्रीय आयुष मंत्री जाधव


खजुराहो में योग दिवस के काउंटडाउन महोत्सव में योग करते हुए


खजुराहो में योग दिवस के काउंटडाउन महोत्सव में योग करते हुए


छतरपुरम्, २७ मे-मासः (हि.स.)। अन्तरराष्ट्रीय-योग-दिवस-२०२६ इत्यस्य २५-दिवसीय-गणना आरब्धा। अस्य निमित्तं बुधवासरे मध्यप्रदेशस्य छतरपुर-जनपदे स्थितायां विश्वप्रसिद्धायां पर्यटन-सांस्कृतिक-नगरी-खजुराहौ भव्ये काउन्टडाउन-महोत्सवे योगस्य सन्देशः प्रसारितः। अस्मात् कार्यक्रमात् प्रदेशस्य सर्वाः आयुष-संस्थाः वर्चुअल-रूपेण सम्बद्धाः अभवन्।

कोलकातायां भविष्यति अन्ताराष्ट्रिय-योग-दिवस-२०२६ मुख्य-समारोहःअन्ताराष्ट्रिय-योग-दिवसः (आईडीवाई) २०२६ इत्यस्य मुख्य-समारोहः २१ जून-मासे पश्चिम-बङ्ग-राज्यस्य कोलकाता-नगरे आयोजितः भविष्यति। केन्द्रीय-आयुष-राज्यमन्त्री (स्वतन्त्र-प्रभारः) तथा स्वास्थ्य-परिवार-कल्याण-राज्यमन्त्री प्रतापराव जाधवः खजुराहौ अस्य घोषणां कृतवान्। सः अवदत् यत् अस्य वर्षस्य विषयः “स्वस्थ-वृद्धावस्थायै योगः” इति निश्चितः अस्ति, यः शारीरिक-स्वास्थ्यं, मानसिक-सन्तुलनं तथा स्वस्थ-जीवनशैलीं प्रति योगस्य महत्त्वपूर्णां भूमिकां प्रकाशयति।

जाधवः उक्तवान् यत् भारतस्य पारम्परिक-धरोहरयशस्य आध्यात्मिक-चेतनया च समृद्धा कोलकाता-नगरी आईडीवाई-२०२६ मुख्य-आयोजनस्य प्रतिनिधित्वं करिष्यति। सः अपि अवदत् यत् योगः भारतस्य प्राचीन-ज्ञान-परम्परायाः प्रतीकः अस्ति तथा निवारक-स्वास्थ्य-सेवायां सम्यक्-जीवनशैली-निर्माणे च अस्य महती भूमिका अस्ति।

खजुराहो वैश्विक-योग-वेलनेस-केन्द्ररूपेण संभावितम्केन्द्रीय-आयुष-राज्यमन्त्री जाधवः उक्तवान् यत् खजुराहो स्वस्य समृद्ध-सांस्कृतिक-आध्यात्मिक-धरोहरस्य भारतस्य प्राचीन-परम्पराणां वेलनेस-संस्कृतेः च समन्वयस्य प्रतीकः अस्ति तथा अस्मिन् वैश्विक-योग-वेलनेस-केन्द्ररूपेण विकसितुं अपाराः सम्भावनाः सन्ति।

योग-संगम-पटलस्य तथा योग-पार्क-पटलस्य शुभारम्भः

अस्मिन् अवसरे केन्द्रीय-राज्यमन्त्रिणा ‘योग-संगम-पटलस्य’ पुनः शुभारम्भः कृतः तथा ‘योग-पार्क-पटलस्य’ उद्घाटनं कृतम्। अपि च योग-टी-शर्टस्य अनावरणं कृतम्। ‘योग-३६५-अभियानस्य’ अन्तर्गतं आयोजिते १००-दिवसीय-निःशुल्क-योग-प्रशिक्षणे २ लक्षाधिकाः जनाः भागं गृहीत्वा ‘योग-मित्र’ प्रमाणपत्रं प्राप्तवन्तः।

“वन अर्थ, वन हेल्थ” विचारः

मुख्यमन्त्री डॉ.मोहनयादवः उक्तवान् यत् योगः अधुना केवलं व्यायामः न, अपि तु “वन अर्थ, वन हेल्थ” इत्यस्य जीवन-दर्शनस्य रूपेण विकसितः अस्ति। राज्ये “घर-घर योग, हर घर निरोग” अभियानेन योगस्य विस्तारः क्रियते।

अन्येऽपि नेतारः उक्तवन्तः यत् योगः भारतस्य प्राचीन-ज्ञान-परम्परायाः वैश्विक-स्वास्थ्य-आन्दोलनं जातम् अस्ति तथा जनसामान्ये जागरूकतां वर्धयति।

दीप-प्रज्वलनेन योग-सत्रस्य उद्घाटनं कृतम् तथा बहुसंख्याः नागरिकाः विद्यार्थिनः च सामूहिक-योगाभ्यासे भागं गृहीतवन्तः।

Hindusthan Samachar / Divya Ranjan