Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २६ मे-मासः (हि.स.)। मध्यप्रदेशे मध्य-क्षेत्र-विद्युत्-वितरण-निर्माणी-क्षेत्रान्तर्गतं समाविष्टेषु १६ जनपदेषु ‘पीएम सूर्य-गृह-योजना’ अन्तर्गतं अद्यावधि ३९,९७५ उपभोक्तारः पञ्जीकृताः सन्ति। तेषां धनागारेषु ३११-कोटि-६४-लक्षाधिकं धनं अनुदानरूपेण प्रेषितम् अस्ति।
जनसम्पर्क-अधिकारी राजेश-पाण्डेयः बुधवासरे उक्तवान् यत् अस्यां योजनायां १ किलोवॉट-क्षमतायुक्ते सौर-संयन्त्रे ३०,००० रूप्यकाणां, २ किलोवॉट-संयन्त्रे ६०,००० रूप्यकाणां, तथा ३ किलोवॉट् वा ततोऽधिक-क्षमतायुक्ते संयन्त्रे ७८,००० रूप्यकाणां अनुदानं केन्द्र-शासनात् प्रदीयते।कम्पनी उक्तवती यत् उपभोक्तारः केवलं विद्युत्-वितरण-निर्माण्या: पञ्जीकृत-अधिकृत-विक्रेतृभ्यः एव सौर-ऊर्जा-संयन्त्रं स्थापयन्तु।
आवेदन-विवरणम्
‘पीएम सूर्य-गृह-योजना’ १३ फरवरी २०२४ तमे मासे प्रारब्धा। अस्यां योजनायां भागग्रहणाय अन्तर्जाल-आवेदनं कर्तव्यम्। तत् कृते pmsuryaghar.gov.in इति जालपुटे आवेदनं शक्यते। अधिक-विवरणस्य कृते portal.mpcz.in इति जालपुटम्, उपाय-ऐप्, व्हाट्सऐप्-चैटबॉट् तथा टोल-फ्री-अंक: १९१२ अपि उपलभ्यन्ते।
नार्माणी स्पष्टीकृतवती यत् उपभोक्तृणां समये अनुदान-प्राप्त्यर्थं वेंडर-उपभोक्तृणां च धनागारपंजिकानाम, आधार-पत्रकनाम, विद्युत्-बिलनाम च समानम् भवितव्यम्। १ दिसम्बर २०२४ अनन्तरं स्थापितेषु सौर-संयन्त्रेषु केवलं स्मार्ट-मीटर प्रयुज्यते, ये मध्य-क्षेत्र-विद्युत्-वितरण-निर्ज्ञत एस.ओ.आर.-दरानुसारं उपभोक्तृभ्यः प्रदीयन्ते। एतेन सोलर-विक्रेतृभ्यः देय-राशौ प्रायः ६ तः ८ सहस्र-रूप्यकाणां न्यूनता दृश्यते।
हिन्दुस्थान समाचार / Divya Ranjan