Enter your Email Address to subscribe to our newsletters

विदिशा, 27 मईमासः (हि.स.)।
मध्यप्रदेशस्य विदिशारेलस्थानकात् अद्य बुधवासरे मुख्यमन्त्रीतीर्थदर्शनयोजनायाः अन्तर्गतं द्वारका–सोमनाथतीर्थयात्रार्थं विशेषरेलयानं प्रस्थितं भविष्यति। अनेन रेलयानेन जनपदस्य १९६ वृद्धजनाः तीर्थदर्शनार्थं प्रेषिताः भविष्यन्ति। एषा विशेषरेलयानसेवा तीर्थदर्शनानन्तरं द्वितीयजूनदिने पुनः विदिशां प्रत्यागमिष्यति।
विदिशोपजिलाधिकारी क्षितिजशर्मा अवदत् यत् मुख्यमन्त्रीतीर्थदर्शनयोजनायाः अन्तर्गतं द्वारका–सोमनाथतीर्थदर्शनार्थं प्रस्थितानां तीर्थयात्रिकाणां कृते विदिशारेलस्थानके विशेषव्यवस्थाः कृताः सन्ति। अस्य कृते तहसीलदार, नायबतहसीलदारस्तरस्य अधिकारिणः विविधदायित्वेषु रेलस्थानकपरिसरे नियुक्ताः सन्ति।
विशेषरूपेण विदिशारेलस्थानके तीर्थयात्रिकेभ्यः आरक्षितरेलटिकिटानां वितरणार्थं तहसीलदारः प्रीतिपन्थी तथा राजस्वनिरीक्षकः सी. पी. शर्मा इत्येताभ्यां प्लाट्फॉर्म् क्रमाङ्क १ स्थितात् काउण्टर् क्रमाङ्क १ तः नगरीयग्रामीणविदिशातहसीलयोः तीर्थयात्रिकेभ्यः, काउण्टर् क्रमाङ्क २ तः ग्यारसपुरतीर्थयात्रिकेभ्यः, तथा काउण्टर् क्रमाङ्क ३ तः गुलाबगञ्जतहसीलस्य तीर्थयात्रिकेभ्यः रेलयात्राटिकिटानां वितरणं क्रियते।
नायबतहसीलदारः शुभमबघेलः तथा राजस्वनिरीक्षकः प्रह्लादमीना प्लाट्फॉर्म् क्रमाङ्क १ स्थितात् टिकिटवितरणकाउण्टर् क्रमाङ्क ४ तः बासौदातीर्थयात्रिकेभ्यः, काउण्टर् क्रमाङ्क ५ तः त्योंदातहसीलस्य तीर्थयात्रिकेभ्यः, तथा काउण्टर् क्रमाङ्क ६ तः कुरवाईतहसीलस्य तीर्थयात्रिकेभ्यः टिकिटवितरणकार्यं करिष्यतः।
नायबतहसीलदारः निधिलोधी तथा राजस्वनिरीक्षकः सुधीरजैनः प्लाट्फॉर्म् क्रमाङ्क १ स्थितात् टिकिटवितरणकाउण्टर् क्रमाङ्क ७ तः पठारीतहसीलस्य, काउण्टर् क्रमाङ्क ८ तः सिरोंजतहसीलस्य, तथा काउण्टर् क्रमाङ्क ९ तः लटेरीतहसीलस्य तीर्थयात्रिकेभ्यः टिकिटवितरणं करिष्यतः।
नायबतहसीलदारः बलीरामसाहू तथा प्रभारीराजस्वनिरीक्षकः रामगोपालपरिहारः प्लाट्फॉर्म् क्रमाङ्क १ स्थितात् टिकिटवितरणकाउण्टर् क्रमाङ्क १० तः शमशाबादतहसील इत्यस्य, तथा काउण्टर् क्रमाङ्क ११ तः नटेरनतहसीलस्य तीर्थयात्रिकेभ्यः रेलटिकिटवितरणकार्यं करिष्यतः।
उपरोक्ताधिकारिभिः सह प्रत्येकं उत्पीठिकायाः कृते त्रयः त्रयः सहयोगिकर्मचारिणः अपि नियुक्ताः सन्ति। येषाम् अधिकारिणां कर्मचारिणां च रेलटिकिटवितरणस्य दायित्वं समर्पितम् अस्ति, तेषां सर्वेषां निर्देशः दत्तः यत् ते प्रातः ११ वादनात् स्वस्वनियुक्तकार्यस्थले उपस्थिताः भूत्वा समर्पितदायित्वानां निर्वहनं करिष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani