मध्यप्रदेशः अद्यावधि देशे सर्वाग्रे स्थितः अस्ति, यतः अत्र अद्यपर्यन्तं १३.३६ लक्षकृषकेभ्यः १०३ लक्ष-मीट्रिक-टन-परिमाणं गोधूमः उपार्जितः अस्ति
भोपालनगरम्, २७ मे-मासः (हि.स.)। मध्यप्रदेशे न्यूनतम-समर्थन-मूल्येन अद्यावधि १३ लक्षं ३६ सहस्रं कृषकेभ्यः गोधूमस्य उपार्जनं कृत्वा राज्यं देशे अग्रस्थानं प्राप्तवती। अद्यावधि १०३ लक्षं ४८ सहस्र-मीट्रिक-टन-परिमाणं गोधूमस्य उपार्जनं सम्पन्नम् अस्ति।
गेहूं उपार्जन


भोपालनगरम्, २७ मे-मासः (हि.स.)। मध्यप्रदेशे न्यूनतम-समर्थन-मूल्येन अद्यावधि १३ लक्षं ३६ सहस्रं कृषकेभ्यः गोधूमस्य उपार्जनं कृत्वा राज्यं देशे अग्रस्थानं प्राप्तवती।

अद्यावधि १०३ लक्षं ४८ सहस्र-मीट्रिक-टन-परिमाणं गोधूमस्य उपार्जनं सम्पन्नम् अस्ति। एषु ८ लक्षं ९ सहस्रं ९९० सीमांत-लघु-कृषकेभ्यः ३२ लक्षं १४ सहस्रन मीट्रिक-टन-गोधूमः क्रयः कृतः।

प्रदेशस्य खाद्य-नागरिक-आपूर्ति-मन्त्री गोविन्दसिंह-राजपूतः बुधवासरे अवदत् यत् कोविड-कालं विहाय विगतेषु दशवर्षेषु अस्मिन् वर्षे समर्थन-मूल्येन सर्वाधिकं गोधूम-उपार्जनं सम्पन्नम् अस्ति, यत् अद्यापि प्रचलति।

खाद्य-मन्त्री उक्तवान् यत् मुख्यमन्त्री डॉ.मोहन-यादवस्य प्रयासैः ७८ लक्ष मीट्रिक-टन-गोधूम-उपार्जनस्य लक्ष्यं केन्द्र-सरकारेण १०० लक्ष मीट्रिक-टन-पर्यन्तं वर्धितम्, किन्तु तस्यापि अधिकं उपार्जनं राज्ये सम्पन्नम् अस्ति। मुख्यमन्त्री स्वयम् उपार्जन-केन्द्राणां सहसा-निरीक्षणं कृत्वा तौलन-व्यवस्था, बारदाना-उपलब्धता, कृषक-सुविधाः च पश्यति।

तेन सह कृषकाणां संवादं कृत्वा देय-प्रदानादीनां स्थितिं ज्ञातवान्। ये कृषकाः स्लॉट-आरक्षणन कृतवन्तः, तेषां उपार्जन-कालः २३ मे-मासतः २८ मे-मास-पर्यन्तं वर्धितः।

कृषकेभ्यः २२,८४२.९ कोटि-रूप्यकाणां प्रदानम्

अद्यावधि कृषकेभ्यः उपार्जित-गोधूमस्य २२,८४२.९ कोटि-रूप्यकाणां प्रदानं कृतम् अस्ति। प्रत्येक-केन्द्रे तौल-कर्तनानां संख्या ४ तः ६ पर्यन्तं वर्धिता, तथा तस्य अधिकारः जनपदानां स्तराय दत्तः।

तौलन-चिटिका-निर्माणस्य कालः सायं ६ वादनात् रात्रौ १० वादनपर्यन्तं विस्तारितः, देयक-निर्गमनस्य कालः च रात्रौ १२ वादनपर्यन्तं कृतः। सप्ताहे ६ दिनानि उपार्जनं क्रियते।

कृषक-सौविध्यर्थं पेयजलं, छायायुक्त-विश्राम-स्थलम्, जन-सुविधाः च केन्द्रेषु स्थापिताः। समर्थन-मूल्यं २५८५ रूप्यकाणि प्रति कुन्तलम्, राज्य-सर्वकारस्य ४० रूप्यक-बोनस-सहितं २६२५ रूप्यकाणि प्रति कुन्तलम् गोधूमः क्रियते।

उपार्जित-उपजस्य सुरक्षित-भण्डारणाय समुचित-व्यवस्था अपि कृता अस्ति। कृषक-हिताय बारदाना, तौल-कर्तनम्, हम्माल-तुलावटी, संगणक-व्यवस्था, गुणवत्ता-परीक्षण-उपकरणानि, व्यजनानि सर्वत्र उपलभ्यन्ते।

Hindusthan Samachar / Divya Ranjan