मण्डलानगरम्, गङ्गा-दशहरा-पर्वणि नर्मदा-भक्तौ निमग्नं नगरम्, चुनरी-यात्रायाः अनन्तरं माहिष्मती-घट्टे रुद्राष्टकस्य गुंजनम् अभवत्
मण्डलानगरम्, २६ मे-मासः (हि.स.)। गङ्गा-दशहरा-पर्वणः पावन-अवसरे मध्यप्रदेशस्य मण्डला-जनपदे ‘जल-गङ्गा-संवर्धन-अभियानस्य’ अन्तर्गतं जल-संरक्षणं नर्मदा-संवर्धनं च विषयीकृत्य विविध-कार्यक्रमाः आयोजिताः। सर्किट-हाउसतः माहिष्मती-घट्टं यावत् भव्य-चुनरी-यात
चुनरी यात्रा


गंगा दशहरा पर कलेक्टर ने थामी झाड़ू


मण्डलानगरम्, २६ मे-मासः (हि.स.)। गङ्गा-दशहरा-पर्वणः पावन-अवसरे मध्यप्रदेशस्य मण्डला-जनपदे ‘जल-गङ्गा-संवर्धन-अभियानस्य’ अन्तर्गतं जल-संरक्षणं नर्मदा-संवर्धनं च विषयीकृत्य विविध-कार्यक्रमाः आयोजिताः। सर्किट-हाउसतः माहिष्मती-घट्टं यावत् भव्य-चुनरी-यात्रा निष्कासिता, यस्याम् महिलानां, यूनां, नर्मदा-भक्तानां च विशालः सहभागः आसीत्।

माहिष्मती-घट्टे नगरपालिकाध्यक्षः विनोद-कछवाहा, उपायुक्त: राहुल-नामदेव-धोटे, अपर-कलक्टरः राजेन्द्र-कुमार-सिंहः, जिला-पञ्चायतस्य मुख्य-कार्यपालन-अधिकारी शाश्वत-सिंह-मीणा च जनप्रतिनिधिभिः सह मातुः नर्मदायाः विधिवत् पूजार्चनं कृतवन्तः। सर्वैः श्रद्धापूर्वकं मात्रे नर्मदायै चुनरीति समर्पिता तथा च आशीर्वादः प्राप्तः।

माहिष्मती-घट्टे मातुः नर्मदायाः विधिवत् पूजनम्, पञ्च-चौकी-महारार्तिकी, रुद्राष्टक-पाठः, नर्मदाष्टक-गायनं च अभवत्। उपायुक्त: राहुल-नामदेव-धोटे जल-संरक्षणस्य स्वच्छतायाः च सन्देशं दत्त्वा नागरिकान् नदीषु कूटकं न क्षेप्तुं प्रेरितवान्। तेन उक्तं यत् नर्मदा अस्माकं संस्कृतेः आस्थायाः च प्रतीकः अस्ति, अतः तस्याः संरक्षणम् सर्वेषां दायित्वम् अस्ति।

उपायुक्त: ‘नमामि-नर्मदे-महारार्तिकी-न्यासस्य’ पदेन-अध्यक्षया सह चर्चां कृत्वा उक्तवान् यत् जून-मासस्य प्रथम-दिनाङ्कात् आरभ्यमाणे योगाभ्यास-कार्यक्रमे प्रतिदिन-स्वच्छता-कार्यक्रमाः अपि अनिवार्यतया समावेश्यन्ताम्। तेन उक्तं यत् एकविंशति-दिनात्मकस्य योग-सत्रस्य उद्देश्यं जनान् स्वास्थ्यं प्रति जागरूकान् कर्तुम् अस्ति। योगेन शरीरं स्वस्थं भवति, स्वच्छतया मनः निर्मलं भवति।स: उक्तवान्— “माता नर्मदा अस्माकं जीवनदायिनी अस्ति। तस्याः स्वच्छता-संरक्षणम् अस्माकं सर्वेषां दायित्वम् अस्ति। यदि वयं प्रतिदिनं केवलं दश-निमेष-पर्यन्तं घट्ट-स्वच्छतायै योजयेम, तर्हि नर्मदा कदापि मलिना न भविष्यति।” तेन उपस्थितेभ्यः अधिकारीभ्यः, कर्मचारिभ्यः, नागरिकेभ्यः च जल-संरक्षणस्य शपथः अपि कारित:।

/ अंशु गुप्ता