Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, २७ मे-मासः (हि.स.)। प्रधानमन्त्री बालेन्द्रशाहः एकसप्ताहाभ्यन्तरे संसदि उपस्थितः भविष्यति। विपक्षी-सांसदैः निरन्तरं अवरोधस्य स्थितौ सत्ता-दलेन राष्ट्रिय-स्वतन्त्र-पक्ष: (आरएसपी) इत्यनेन बुधवासरे सदने एतत् आश्वासनं दत्तम्।
आरएसपी-दलस्य मुख्य-सचेतकः कवीन्द्रबुरलाकोटी प्रतिनिधि-सभायाः द्वितीय-सत्रे उक्तवान् यत् एकसप्ताहाभ्यन्तरे प्रधानमन्त्रिणः उपस्थित्या संसदः कार्यसञ्चालनाय सुचारु-वातावरणं भविष्यति।
विपक्षी-दले यूएमएल इत्यस्य उपनेत्री पद्मा अर्यालः सत्तापक्षं प्रति आरोपं कृतवती यत् सभापतेः अध्यक्षतायां सम्पन्नायां कार्यव्यवस्था-परामर्श-समित्याः सभायां सहमतेः अभावेऽपि स्वपक्षं प्रस्तोतुं ते असफलाः जाताः। सा उक्तवती यत् संसद् सर्वकारस्य प्रशंसायाः मञ्चः नास्ति, अपितु विपक्षः सर्वकारं उत्तरदायीकर्तुं स्वकर्तव्यं सम्यक् निर्वहति।
अन्ये विपक्षी-सांसदाः अपि प्रधानमन्त्रिणः संसद्-उपस्थितिं प्रति स्पष्टां निर्णय-घोषणां (रूलिंग्) दातुं सभापतेः आग्रहं कृतवन्तः। ततः सभापतिः डी.पी.अर्यालः सांसदान् सदन-कार्यवाहीं सुचारुरूपेण सञ्चालयितुं प्रार्थितवान्। सः उक्तवान् यत् प्रधानमन्त्रिणः उपस्थितेः विषये आरएसपी-पक्षात् सूचना प्राप्ता अस्ति। सभापतेः आह्वानानन्तरं विपक्षी-सांसदाः स्वविरोधं समाप्य सदने प्रस्तुत-विधेयके चर्चायां भागं गृहीतवन्तः।
Hindusthan Samachar / Divya Ranjan