Enter your Email Address to subscribe to our newsletters

काठमांडूः, 27 मईमासः (हि.स.)।
नेपालस्य पूर्वगृहमन्त्री सुदन गुरूङ्गस्य वक्तव्यं लेखबद्धं कर्तुं जाँचसमित्या पत्रं प्रेषितम्। गुरूङ्गस्य विरुद्धे जाँचार्थं गठिता समिति बुधवासरे तस्य वक्तव्यग्रहणस्य तैयारीं कुर्वती अस्ति। समित्या मङ्गलवासरे एव गुरूङ्गाय पत्रं प्रेष्य बुधवासरे वक्तव्यदाने उपस्थितुं निर्देशः दत्तः।
समितेः अध्यक्षः अच्युतप्रसादभण्डारी उक्तवान्, “पूर्वगृहमन्त्री सुदन गुरूङ्गस्य आयातिरिक्तसम्पत्तेः तथा अवैधव्यापारस्य जाँचार्थं स्टॉकएक्सचेञ्ज्, बैंक् तथा भूमिसम्बद्धानां सर्वेषां प्रतिवेदनानाम् अध्ययनं क्रियमाणम् अस्ति। एषा प्रक्रिया पूर्णा भवति चेत् वयं बुधवासरे तस्य वक्तव्यं ग्रहीष्यामः।” तथापि, जाँचसमित्या स्वीकृतं यत् कतिपयानाम् अतिरिक्तप्रतिवेदनानाम् अपि आह्वानस्य आवश्यकता अनुभूयते।
सर्वकारेण ११ मई दिने उच्चन्यायालयस्य अवकाशप्राप्तन्यायाधीशस्य अच्युतप्रसादभण्डारिणः अध्यक्षतायां त्रिसदस्यीया जाँचसमितिः गठिता आसीत्। समितौ महालेखानियन्त्रकः शोभाकान्तपौडेल तथा महान्यायाधिवक्तृकार्यालयस्य सहन्यायाधिवक्ता अच्युतमणिन्यौपाने सदस्यौ स्तः। गुरूङ्गेन २२ अप्रैल दिने गृहमन्त्रीपदात् त्यागपत्रं दत्तम्। २७ मार्च दिने गृहमन्त्रीपदं प्राप्तवान् गुरूङ्गः स्वसम्पत्तेः विवरणं सार्वजनिकीकृत्य विवादेषु आबद्धः जातः। तेन सार्वजनिकीकृते विवरणे वैधानिकसीमातः अधिकभूमेः उल्लेखः कृतः।
अस्वाभाविकरीत्या सम्पत्त्यर्जनस्य आरोपेषु हिरासतस्थेन व्यवसायिना दीपकभट्टेन सम्बद्धायां कम्पन्यां गुरूङ्गस्य भागीदारी अपि सन्दिग्धा मन्यते। समितिः एतेषां विषयाणां परिशीलनंकृत्वा सर्वकाराय स्वप्रतिवेदनं समर्पयिष्यति। प्रायः दशदिनपूर्वात् कार्यारम्भं कृतवत्यै अस्यै समितये पञ्चदशदिनानाम् अन्तर्गतं स्वप्रतिवेदनं सर्वकाराय समर्पयितुं निर्देशः दत्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani