Enter your Email Address to subscribe to our newsletters

नवदेहली, २७ मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी देशस्य विभिन्नेषु भागेषु प्रवर्तमानायाः भीषण-उष्णतायाः लू-स्थितेश्च मध्ये नागरिकान् सतर्कतां पालनं सर्वाः आवश्यक-सावधानताश्च स्वीकर्तुम् आहूतवान्। तेन जनान् पर्याप्त-मात्रायां जलं पातुं, बहिर्गमन-समये जलेन सह नेतुं, आवश्यकतायुक्तेभ्यः जनेभ्यः जलं प्रदातुं च आग्रहः कृतः।
प्रधानमन्त्री बुधवासरे एक्स-माध्यमे प्रकाशितेषु अनेकासु सूचनासु उक्तवान् यत् अत्यधिक-उष्णता सर्वेषां कृते समस्यापूर्णा अस्ति। तेन जनाः उष्णता-क्लान्तेः लक्षणानि यथा भ्रमः, वमन-भावना, अत्यधिक-श्रान्तिः च न उपेक्षितव्यानि इति परामर्शः दत्तः। तेन उक्तं यत् यदि कश्चित् दुर्बलतां, शिरोवेदनां, अस्वस्थतां वा अनुभवति तर्हि तम् अविलम्बेन शीतल-छायायुक्त-स्थाने नीत्वा जलं ओआरएस-पेयम् च दातव्यम्।
प्रधानमन्त्री उक्तवान् यत् बालकाः, वृद्धाः, बहिः कार्यरताः जनाश्च अत्यधिक-उष्णतायां सर्वाधिकं प्रभाविताः भवन्ति। तेन संचेतना दत्ता यत् लक्षणानाम् अवहेलनया स्थिति: गम्भीरा भूत्वा उष्णाघातस्य रूपं धारयितुं शक्नोति।
मोदी-महोदयेन जनाः स्वपितॄन्, पितामहान्, मातामहान्, अन्यान् वृद्ध-परिजनान् च विशेषतया ध्यानं दातुम् आहूताः। तेन उक्तं यत् तेषां नियमितरूपेण दूरभाषेण कुशल-क्षेमं ज्ञातव्यम्, पर्याप्तं जलं पातुं, मध्याह्ने तीव्रातपे बहिर्न निर्गन्तुं, पर्याप्तं विश्रामं कर्तुं च परामर्शः दातव्यः।
प्रधानमन्त्री भीषण-उष्णतायाः समये पक्षिणां पशूनां च प्रति संवेदनशीलतां प्रदर्शयितुम् अपि आह्वानम् अकरोत्। तेन उक्तं यत् गृहेषु, बाल्कनी-इत्यत्र, गृहच्छदे, आपणेषु कार्यालयेषु च बहिः जलपूर्णानि लघुपात्राणि स्थापयितुं पिपासितेभ्यः पक्षिभ्यः पशुभ्यश्च जीवनदायकं सिद्धुं शक्नोति।
प्रधानमन्त्री लिखितवान्— “देशस्य विभिन्नेषु भागेषु तापमानं निरन्तरं वर्धते, तेन सह उष्णतया जनिताः दैनिक-जीवनस्य कठिनताः अपि वर्धन्ते। अहं सर्वान् देशवासिनः यथाशक्ति सावधानतां पालनार्थम् आग्रहं करोमि। कृपया स्वशरीरं जलयुक्तं धारयन्तु, बहिर्गमन-समये जलं सह नयन्तु। एतादृशे समये भवतां संवेदनशीलता अपि महान् आधारः भवति। यदि सम्भवम्, तर्हि कस्यचित् पिपासितस्य जनस्य कृते एकं जलपूर्णं पात्रम् अवश्यं ददातु। ये जनाः स्वगृहस्य आपणस्य च बहिः घट्टेषु जलं स्थापयन्ति, तेषाम् अहं प्रशंसां करोमि।”
अन्यस्मिन् सन्देशे तेन लिखितम्— “यदा सम्भवति तदा स्वपितॄन्, पितामहान्, मातामहान् अन्यान् प्रियजनान् च दूरभाषेण सम्पर्कं कृत्वा तेषां कुशलं पृच्छन्तु। तान् पर्याप्तं जलं पातुं, मध्याह्ने तीव्रातपे बहिर्न निर्गन्तुं, यथासम्भवं विश्रामं कर्तुं च परामर्शं ददातु।”
प्रधानमन्त्री पुनः लिखितवान्— “अस्यां प्रचण्ड-उष्णतायाम् अस्माभिः स्वपरिसरे स्थिताः पशवः पक्षिणश्च न विस्मर्तव्याः। स्वगृहस्य, बाल्कनीयाः, गृहच्छदस्य, आपणस्य कार्यालयस्य वा बहिः जलपूर्णं लघुपात्रं स्थापयितुं कस्यचित् पिपासितस्य पक्षिणः कृते जीवनदानं भवितुं शक्नोति। आगच्छाम, एतेषु कठिन-दिवसेषु पूर्ण-संवेदनशीलतया करुणया च परस्परं ध्यानं कुर्मः।”
Hindusthan Samachar / Divya Ranjan