मोदी, बिरला, राजनाथसिंहः चेत्यादयः गडकरी-महोदयाय जन्मदिनस्य शुभकामनाः अयच्छन्
नवदेहली, २७ मे-मासः (हि.स.)। नरेन्द्रमोदी, ओमबिरला, राजनाथसिंहः चेत्यादयः अनेके नेतारः केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिनगडकरी महोदयस्य जन्मदिने शुभकामनाः प्रदाय राष्ट्रनिर्माणे तस्य योगदानस्य प्रशंसाम् अकुर्वन्। प्रधानमन्त्री नरेन्द्रमो
केंद्रीय सड़क परिवहन एवं राजमार्ग मंत्री नितिन गडकरी (फाइल फोटो)।


नवदेहली, २७ मे-मासः (हि.स.)। नरेन्द्रमोदी, ओमबिरला, राजनाथसिंहः चेत्यादयः अनेके नेतारः केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिनगडकरी महोदयस्य जन्मदिने शुभकामनाः प्रदाय राष्ट्रनिर्माणे तस्य योगदानस्य प्रशंसाम् अकुर्वन्।

प्रधानमन्त्री नरेन्द्रमोदी एक्स-माध्यमे प्रकाशिते सन्देशे उक्तवान् यत् गडकरी भारतदेशाय आधुनिक-अवसंरचनां उत्तम-संपर्क-व्यवस्थां च प्रदातुं प्रयत्नेषु अग्रणी-भूमिकां निर्वहति। तेन तस्य दीर्घस्य स्वस्थस्य च जीवनस्य कामना कृता।

लोकसभा-अध्यक्षः ओमबिडला गडकरी-महोदयाय जन्मदिनस्य शुभकामनाः शुभाशंसाश्च प्रदाय ईश्वरात् तस्य उत्तम-स्वास्थ्यस्य मंगलमय-जीवनस्य च प्रार्थनाम् अकरोत्।

रक्षा-मन्त्री राजनाथसिंह: गडकरी-महोदयम् “गतिशील-सहयोगी” इति वर्णयन् उक्तवान् यत् सः देशे विश्वस्तरीय-सड़क-अवसंरचनायाः निर्माणार्थं निरन्तरं कार्यं करोति।

शिक्षा-मन्त्री धर्मेन्द्रप्रधान: उक्तवान् यत् सड़क-निर्माणे, आधुनिक-संपर्क-व्यवस्थायाम्, एक्सप्रेस-मार्ग-जालस्य विस्तारस्य च क्षेत्रे गडकरी-महोदयस्य नेतृत्वेन भारतस्य विकास-यात्रायै नूतना गतिः प्राप्ता। तेन ‘विकसित-भारत’ इति संकल्पस्य साकारीकरणे तस्य योगदानं महत्त्वपूर्णम् इति कथितम्।

भारतीय-जनता-पक्षस्य राष्ट्रीय-अध्यक्षः नितिननवीन गडकरी-महोदयाय जन्मदिनस्य शुभकामनाः प्रदाय तस्य उत्तम-स्वास्थ्यस्य राष्ट्र-सेवायां निरन्तर-सफलतायाश्च कामनाम् अकरोत्।

आम-आदमी-पक्षस्य संयोजकः अरविन्दकेजरीवालः अपि गडकरी-महोदयाय जन्मदिनस्य शुभकामनाः प्रदाय तस्य सुखदस्य स्वस्थस्य च जीवनस्य कामनाम् अकरोत्।

देहली-राज्यस्य मुख्यमन्त्री रेखागुप्ता उक्तवती यत् देहल्याः विकासे, संपर्क-व्यवस्थायां प्रगतौ च गडकरी-महोदयस्य सहयोगः मार्गदर्शनं च प्रेरणादायि अभवत्। तया तस्य दीर्घायुषः स्वस्थ-जीवनस्य च कामना कृता।

Hindusthan Samachar / Divya Ranjan