प्रधानमंत्री मोदी ने नेहरोः 62तमायां पुण्यतिथौ तस्मै दत्तश्श्रद्धांजलिः
नवदिल्ली, 27 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य देशस्य प्रथमप्रधानमन्त्रिणः जवाहरलालनेह्रूणः ६२ तमी पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवान्। प्रधानमन्त्री मोदी एक्स् इत्यस्मिन् लिखितवान्, ‘‘पूर्वप्रधानमन्त्री पण्डितजवाहरलालनेह्रवे
नई दिल्ली में राजघाट के पास शांति वन है। यह पंडित जवाहरलाल नेहरू का समाधि स्थल है। फोटो - इंटरनेट मीडिया


नवदिल्ली, 27 मईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी अद्य देशस्य प्रथमप्रधानमन्त्रिणः जवाहरलालनेह्रूणः ६२ तमी पुण्यतिथौ तस्मै श्रद्धाञ्जलिं समर्पितवान्। प्रधानमन्त्री मोदी एक्स् इत्यस्मिन् लिखितवान्, ‘‘पूर्वप्रधानमन्त्री पण्डितजवाहरलालनेह्रवे तस्य पुण्यतिथौ श्रद्धाञ्जलिः।’’

उल्लेखनीयम् अस्ति यत् १४ नवम्बर् १८८९ दिने इलाहाबादे (अधुना प्रयागराजे) जातः नेह्रू २७ मई १९६४ दिने अन्तिमश्वासं त्यक्तवान्। सः १५ अगस्त् १९४७ दिनात् स्वनिधनपर्यन्तं निरन्तरं १६ वर्षाणि २८६ दिवसान् यावत् देशस्य नेतृत्वं कृतवान्। तस्य ग्रन्थेषु ‘भारतस्य अन्वेषणम्’ इति महत्त्वपूर्णा कृतिः अस्ति।

नेह्रूणः समाधिस्थलं शान्तिवनम् अस्ति। तत् नवीदेहलीनगरे महात्मागान्धेः समाधिस्थलस्य (राजघाटस्य) उत्तरदिशि रिङ्गरोड् मार्गे यमुनानद्याः तीरे स्थितम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani