प्रधानमंत्री मोदी सुभाषितम् सहकृत्वा बोधितं दृढ़ संकल्पस्य महत्वम्
नव दिल्ली, 27 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी दृढता, धैर्यं तथा निरन्तरप्रयत्नस्य शक्तिं रेखाङ्कयन् संस्कृतसुभाषितं साझीकृतवान्। तेन उक्तं यत् महानपि लक्ष्यः सततप्रयत्नेन दृढसंकल्पेन च साधयितुं शक्यते। सः अद्य एक्स् इत्यस्मिन् अलिखत्,
प्रधानमंत्री मोदी का एक्स पर साझा सुभाषितम्।


नव दिल्ली, 27 मईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी दृढता, धैर्यं तथा निरन्तरप्रयत्नस्य शक्तिं रेखाङ्कयन् संस्कृतसुभाषितं साझीकृतवान्। तेन उक्तं यत् महानपि लक्ष्यः सततप्रयत्नेन दृढसंकल्पेन च साधयितुं शक्यते। सः अद्य एक्स् इत्यस्मिन् अलिखत्, “निरन्तरप्रयत्नेन, धैर्येण दृढसंकल्पेन च महानपि लक्ष्यः प्राप्तुं शक्यते। अद्य देशवासिनः अपि एतस्यैव भावनायाः प्रेरणया भारतवर्षं नूतनशिखराणि प्रति नयन्ति।”

प्रधानमन्त्रिणा एतत् सुभाषितं सहकृतम्

“यो यमर्थं प्रार्थयते तदार्थं चेहते क्रमात्।

निश्चितं स तमाप्नोति न चेदर्थान्निवर्तते।।

अस्य अर्थः अस्ति यत् यः व्यक्तिः कस्यचित् लक्ष्यस्य प्राप्तिम् इच्छति तथा तस्य सिद्ध्यर्थं निरन्तरं, व्यवस्थितरूपेण धैर्यपूर्वकं च प्रयत्नं करोति, सः निश्चितरूपेण स्वस्य उद्देश्यम् अधिगच्छति, यदि सः मार्गमध्ये पराजयं न स्वीकरोति तथा स्वसंकल्पात् विमुखः न भवति।

---------------

Hindusthan Samachar / Dheeraj Maithani