विश्वशान्त्यै हनुमान-चालीसायाः सामूहिक-पाठः
जोधपुरनगरम्, २७ मे-मासः (हि.स.)। पुरुषोत्तम-मासस्य पावन-अवसरे विश्वशान्त्यै, मानव-कल्याणाय तथा आध्यात्मिक-जागरणाय च विश्वव्यापी-सामूहिक-हनुमान-चालीसा-पाठः तथा श्रीराम-नाम-जपः महन्त-परमहंस-डॉ.रामप्रसाद-महाराजस्य सान्निध्ये सम्पन्नः। कार्यक्रमस्य मु
jodhpur


जोधपुरनगरम्, २७ मे-मासः (हि.स.)। पुरुषोत्तम-मासस्य पावन-अवसरे विश्वशान्त्यै, मानव-कल्याणाय तथा आध्यात्मिक-जागरणाय च विश्वव्यापी-सामूहिक-हनुमान-चालीसा-पाठः तथा श्रीराम-नाम-जपः महन्त-परमहंस-डॉ.रामप्रसाद-महाराजस्य सान्निध्ये सम्पन्नः।

कार्यक्रमस्य मुख्य-संयोजकौ डॉ.प्रभात-माथुरः तथा बृजेश-नेपालिया इति अवदताम् यत् बड़ा-रामद्वारस्य परमहंस-रामप्रसाद-महाराजस्य मार्गदर्शने प्रचलिते अस्मिन् आध्यात्मिक-अभियाने देश-विदेशयोः अनेकानि मन्दिराणि, मठाः तथा धार्मिक-सामाजिक-संस्थाः सम्बद्धाः अभवन्। अस्मिन् अवसरे सामूहिक-हनुमान-चालीसा-पाठः, श्रीराम-नाम-जपः, दीप-प्रज्वलनं तथा विश्वशान्त्यै सामूहिक-प्रार्थना च कृता।

अभियन्ता निर्मल-कुमार-माथुरः अवदत् यत् भारतस्य विविध-नगराणि यथा जोधपुरम्, जयपुरम्, उदयपुरम्, बेंगलूरु, मुम्बई, कोयम्बटूर्, हैदराबादः, हरिद्वारः, राँची, पानीपत्, भोपालः, इन्दौरः, सूरत्, पुणे, अहमदाबादश्च इत्यादिषु तथा विदेशेषु न्यूजीलैण्ड्, ऑस्ट्रेलिया, जापान, डेनमार्क, जर्मनी, मलेशिया इत्यादिषु अपि एतत् आयोजनं प्रति श्रद्धालूनां विशेष-उत्साहः दृश्यते।

जोधपुर-नगरे भारत-विकास-परिषदः, पाल-बालाजी, पंचमुखी-बालाजी, रोटरी-बालाजी, गणेश-मन्दिरम् (रातानाड़ा), दुर्गा-मन्दिरम्, सुन्दर-बालाजी, प्रत्यक्ष-बालाजी, महाकालेश्वर-मन्दिरम्, सर्वेश्वर-महादेव-मन्दिरम्, बड़ा-गणेश-मन्दिरम्, वैशाली-एवेन्यू-मन्दिरम्, विनायक-विहार-मन्दिरम्, श्रीराम-मन्दिरम्, लक्ष्मीनारायण-मन्दिरम्, शिव-मन्दिरम् (पब्लिक-पार्क), आशुतोष-मन्दिरम्, आदेश्वर-महादेव-मन्दिरम्, चमत्कारी-महादेव-मन्दिरम्, ठाकुरजी-मन्दिरम्, शेखावाटी-हनुमान-मन्दिरम् इत्यादिषु अनेक-धार्मिक-स्थलेषु श्रद्धालुभिः सामूहिकरूपेण श्रीहनुमान-चालीसा-पाठः कृतः।

Hindusthan Samachar / Divya Ranjan