Enter your Email Address to subscribe to our newsletters

नोएडानगरम्, २७ मे-मासः (हि.स.)। उत्तरप्रदेशस्य गौतमबुद्धनगर-जनपदे नोएडा-आरक्षक-आयुक्तेन ईद्-उल्-अज़हा (बकरीद्)-पर्वणः विविध-श्रमिक-सङ्घटनानां अन्य-सङ्घटनानां च धरना-प्रदर्शनानां दृष्ट्या २८ मे-दिनात् ३० मे-दिन-पर्यन्तं जनपदे भारतीय-नागरिक-सुरक्षा-संहितायाः (बीएनएसएस)-२०२३ इत्यस्य धारा-१६३ प्रवर्तिता।
आरक्षक-विभागस्य पत्रकार-प्रभारी उक्तवान् यत् ईद्-उल्-अज़हा-पर्वणा सह कृषकाणां विविध-सङ्घटनानां च धरना-प्रदर्शनानां दृष्ट्या जनपदे धारा-१६३ प्रवर्तिता अस्ति। अस्य अवधौ कश्चन व्यक्तिः आरक्षक-अनुमतिं विना किमपि यात्रां निष्कासयितुं न शक्नोति। पञ्चाधिकाः जनाः एकत्र समूह-रूपेण स्थातुं न शक्नुवन्ति। शासकीय-कार्यालयानां उपरि समीपे च एक-किलोमीटर-परिधौ ड्रोन-यन्त्रेण छायाङ्कनं प्रतिबन्धितम् अस्ति। केवलं आरक्षक-अनुमत्या एव ड्रोन-यन्त्रस्य सञ्चालनं शक्यं भविष्यति। धार्मिक-सार्वजनिक-स्थलेषु यात्रा-आयोजने ध्वनि-विस्तारक-यन्त्रस्य ध्वनि-तीव्रतायाः सम्बन्धे न्यायालयस्य आदेशानां पालनम् अनिवार्यं भविष्यति।
तेन उक्तं यत् धार्मिक-स्थलेषु, भित्तिषु च कस्यापि प्रकारस्य धार्मिक-ध्वजः, विज्ञापनं वा न स्थापनीयः, न च अस्मिन् कार्ये कस्यचित् सहयोगः करणीयः। एतत् दण्डनीय-अपराधः भविष्यति। तेन अपि उक्तं यत् कश्चन व्यक्तिः मुक्त-स्थले अथवा गृहच्छदे इष्टिकाः, पाषाणान्, सोडा-वाटर-पात्राणि, ज्वलनशील-पदार्थान्, विस्फोटक-सामग्रीं वा सञ्चयितुं स्थापयितुं वा न अर्हति।
/ अंशु गुप्ता